Skip to main content
Search
SV
Śiśupālavadham • Chapter 01

Canto 1

प्रथमः सर्गः (कृष्णनारदसम्भाषणम्)

Canto 1 of Śiśupālavadham.

Total: 75 Verses • Citations: SV 1.1–75 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
SV 1.1 वंशस्थम्
श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥
SV 1.2 वंशस्थम्
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥
SV 1.3 वंशस्थम्
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥
SV 1.4 वंशस्थम्
नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥
SV 1.5 वंशस्थम्
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् । विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥
SV 1.6 वंशस्थम्
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति । सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥
SV 1.7 वंशस्थम्
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥
SV 1.8 वंशस्थम्
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना । चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥
SV 1.9 वंशस्थम्
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥
SV 1.10 वंशस्थम्
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः । स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥
SV 1.11 वंशस्थम्
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः । समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥
SV 1.12 उपेन्द्रवज्रा
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्लीयत । गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥
SV 1.13 वंशस्थम्
अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः । न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥
SV 1.14 वंशस्थम्
तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥
SV 1.15 वंशस्थम्
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥
SV 1.16 वंशस्थम्
महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे । श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥
SV 1.17 वंशस्थम्
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥
SV 1.18 उपजातिः
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥
SV 1.19 वंशस्थम्
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत । जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥
SV 1.20 वंशस्थम्
स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः । विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥
SV 1.21 वंशस्थम्
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥
SV 1.22 वंशस्थम्
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः । परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥
SV 1.23 वंशस्थम्
युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥
SV 1.24 वंशस्थम्
निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी । विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥
SV 1.25 वंशस्थम्
सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥
SV 1.26 वंशस्थम्
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥
SV 1.27 वंशस्थम्
जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना । प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥
SV 1.28 वंशस्थम्
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना । सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥
SV 1.29 वंशस्थम्
विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा । तथापिशुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन वा तृप्यते ॥
SV 1.30 वंशस्थम्
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया । तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥
Full Table of Contents Next (Ch. 2) →