यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥
सार्थमुध्धवसीरिभ्यामथासावसदत्सदः । गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥
जाज्वल्यमाना जगतः शान्तये समुपेयुषी । व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनोऽपि परितः पौरुषेयवृता इव ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी । तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः । हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥
भवद्गिरामवसरप्रदानाय वचांसि नः । पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् । विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति । यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥
मम तावन्मतमिदं श्रूयतामङ्ग वामपि । ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥
यावदर्थपदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥
ततः सपत्नापनयस्मरणानुशयस्फुरा । ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां । प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥
घूर्णयन्मदिरास्वादमदपाटलितद्युती । रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं । म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥
दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः । द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥
प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा । कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥
ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया । मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥
जगादवदनछद्मपद्मपर्यन्तपातिनः । नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥
यद्वासुदेवेनादीनमनादीनवमीरितम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते । इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥
विरोधिवचसो मूकान्वगीशानपि कुर्वते । जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥
षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः । ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥