कौबेरदिग्भागमपास्य मार्गमागस्त्यमिव आशुःइव अवतार्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थमथ प्रतस्थे ॥
जगत्पवित्रैःअपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यत अर्कः । यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥
मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा । अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः । व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥
उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥
तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः । अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥
मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य । अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥
स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥
प्रसाधितस्यास्य मुधाद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥
प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥
यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव । निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥
तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती । नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥
न केवलं यः स्वतया मुरारेरसाधारणतां दधानः । अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूत् ॥
न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु । विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् । महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥
ध्वजाग्रधामा ददृशेऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥
यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः । जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततोऽधः । महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि । क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः । आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥
निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् । ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः । प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥