तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥
संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥
शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥
विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥
ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥
सखागरीयान्शत्रुश्छकृत्रिमस्तौ हि कार्यतः । स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥
उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥
त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे । बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥
त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥
आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् । कथापि खलु पापानामलमश्रेयसे यतः ॥
विराद्ध एवं भमता विराद्धा बहुधा च नः । निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥
विधायवैरं सामर्षेनरेऽरौ यःउदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥
मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी । क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥
माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥
पदाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः ॥
असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः । यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥
स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् । कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥
अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः । केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥
चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥
स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः । यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥
विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥
हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥