(ततह प्रविशति विषण्णो विदूषकः)
(निःश्वस्य) भो दिस्टम् ।एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि ।अयं मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटतीतोऽटवी । पत्रसंकरकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते ।अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि ।इयतेदानीमपि पीडा न किष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । सांप्रतं नगरगमनाय मनः कथमपि न करोति ।अद्य अपि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः । यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च)
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु ।अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय । (इति दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)
राजा
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥
(स्मितं कृत्वा)एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥
(तथास्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद्वान्मात्रेण जापयिष्यामि । जयतु जयतु भवान् ।
कुतोऽयं गात्रोपघातः ।
कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ।
न खल्ववगच्छामि ।
भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य ।
नदीवेगस्तत्र कारणम् ।
मम अपि भवान् ।
कथमिव ।
एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे ।एकाहमपि तावद्विश्रम्यताम् ।
(स्वगतम्)अयं चैवमाह । मम अपि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु । सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकोपदेशः ॥
(राज्ञो मुखं विलोक्य)अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते ।अरण्ये मया रुदितमासीत् ।
(सस्मितम्) किमन्यत् ।अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि ।
चिरं जीव । (इति गन्तुमिछति)
वयस्य तिष्ठ । सावशेषं मे वचः ।
आज्ञापयतु भवान् ।
विश्रान्तेन भवता मम अप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् ।
किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः ।
यत्र वक्ष्यामि । कः कोऽत्र भोः ।
(प्रविश्य)
(प्रणम्य)आज्ञापयतु भर्त्ता ।
रैवतक सेनापतिस्तावदाहूयताम् ।
तथा । (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य)एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति ।उपसर्पत्वार्यः ।