Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 01

Canto 1

प्रथमोऽङ्कः

Canto 1 of Abhijñānaśākuntalam.

Total: 188 Verses • Citations: AS 1.1–188 • 1 Lexicon Terms • Page 1 of 7 (Verses 30 shown)
AS 1.1 स्रग्धरा
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥
व्याख्या / Traditional Commentary & Notes
sp: सूत्रधारः
आर्य अभिरूपभूयिष्ठा परिषदियम् ।अद्य खलु कालिदासग्रथितवस्तुना
नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
व्याख्या / Traditional Commentary & Notes
sp: नटी
सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
आर्ये कथयामि ते भूतार्थम् ।
AS 1.7 आर्या
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
व्याख्या / Traditional Commentary & Notes
sp: नटी
आर्य एवमेतत् ।अनन्तरकरणीयमार्य आज्ञापयतु ।
व्याख्या / Traditional Commentary & Notes
sp: सूत्रधारः
किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि
AS 1.10 आर्या
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥
व्याख्या / Traditional Commentary & Notes
sp: नटी
AS 1.12 गीति
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥
व्याख्या / Traditional Commentary & Notes
sp: सूत्रधारः
आर्य साधु गीतम् ।अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्य एनमाराधयामः ।
व्याख्या / Traditional Commentary & Notes
sp: नटी
नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
व्याख्या / Traditional Commentary & Notes
sp: सूत्रधारः
आर्ये सम्यगनुभोधितोऽस्मि ।अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः ।
AS 1.16 अनुष्टुप्
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।एष राजेव दुष्यन्तः सारङ्गेणातिरंसहा ॥
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च)
व्याख्या / Traditional Commentary & Notes
sp: सूतः
(राजानं मृतं चावलोक्य)आयुष्मन् ।
AS 1.21 अनुष्टुप्
कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
सूत दूरममुना सारङ्गेण वयमाकृष्टाः ।अयं पुनरितानीमपि
AS 1.23 स्रग्धरा
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥
(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।
व्याख्या / Traditional Commentary & Notes
sp: सूतः
आयुष्मन्नुद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
तेन हि मुच्यन्तामभीषवः ।
व्याख्या / Traditional Commentary & Notes
sp: सूतः
यदाज्ञापयत्यायुष्मान् । (रथवेगं निरूप्य)आयुष्मन्पश्य पश्य ।
AS 1.28 वसन्ततिलका
मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।आत्मोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥
व्याख्या / Traditional Commentary & Notes
sp: राजा
सत्यम् ।अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि ।
AS 1.30 शिखरिणी
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृष्त्या यद्वक्रं तदपि समरेखं नयनयोर् न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥
Full Table of Contents Next (Ch. 2) →