Skip to main content
Search
AS
Abhijñānaśākuntalam • Chapter 01

Canto 1

प्रथमोऽङ्कः

Canto 1 of Abhijñānaśākuntalam.

Total: 188 Verses • Citations: AS 1.1–188 • 1 Lexicon Terms • Page 6 of 7 (Verses 30 shown)
AS 1.151 आर्या
भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः ।आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥
व्याख्या / Traditional Commentary & Notes
sp: शकु
(सरोषमिव)अनसूये गमिष्याम्यहम् ।
व्याख्या / Traditional Commentary & Notes
sp: अन
किं निमित्तम् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
इमामसंबद्धप्रलापीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
व्याख्या / Traditional Commentary & Notes
sp: अन
सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् ।
(शकुन्तला न किंचिदुक्त्वा प्रस्थितैव)
व्याख्या / Traditional Commentary & Notes
sp: राजा
(ग्रहीतुमिच्छन्निगृह्यात्मानम् ।आत्मगतम्)अहो चेष्टा प्रतिरूपिका कामिजनमनोवृत्तिः ।अहं हि
AS 1.158 आर्या
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥
व्याख्या / Traditional Commentary & Notes
sp: प्रि
(शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(सभ्रूभङ्गम्) किं निमित्तम् ।
व्याख्या / Traditional Commentary & Notes
sp: प्रि
वृक्षसेचने द्वे दारयसि मे ।एहि तावत् ।आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलादेनां निवर्तयति)
व्याख्या / Traditional Commentary & Notes
sp: राजा
भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः
AS 1.163 शार्दूलविक्रीडितम्
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥
तदहमेनामनृणां करोमि (इति अङ्गुलीयं दातुमिच्छति)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः)
व्याख्या / Traditional Commentary & Notes
sp: राजा
अलमस्मानन्यथा संभाव्य । राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ ।
व्याख्या / Traditional Commentary & Notes
sp: प्रि
तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् ।आर्यस्य वचनेनानृणेदानीमेषा । (किंचिद्विहस्य) हला शकुन्तले मोचितास्यनुकम्पिनार्येण ।अथवा महाराजेन । गच्छेदानीम् ।
व्याख्या / Traditional Commentary & Notes
sp: शकु
(आत्मगतम्) यद्यात्मनः प्रभविष्यामि ।
(प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(शकुन्तलां विलोक्य ।आत्मगतम्) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् ।अथवा लब्धावकाशा मे प्रार्थना । कुतः ।
AS 1.171 वसन्ततिलका
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीनाम् भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥
भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः ।
AS 1.174 पुष्पिताग्रा
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥
AS 1.176 मन्दाक्रान्ता
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥
(सर्वाः कर्णं दत्त्वा किंचिदिव संभ्रान्ताः)
व्याख्या / Traditional Commentary & Notes
sp: राजा
(आत्मगतम्)अहो धिक्पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।
व्याख्या / Traditional Commentary & Notes
sp: सख्यौ
आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः ।अनुजानीहि न उटजगमनाय ।
व्याख्या / Traditional Commentary & Notes
sp: राजा
(ससंभ्रमम्) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।
Full Table of Contents Next (Ch. 2) →