पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् । अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रुकरौजसः ॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः । क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥
दशदिगन्तजिता रघुणा यथआ श्रइयमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि । न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः । स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः । स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥
चरणयोर्नखरागसमृद्धिभिर्मुकुटरन्तमरीचिभिरस्पृशन् । नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् । समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥
उपगतोऽपि च मण्डलनाभितामनुभितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता । नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगश्रृङ्गपरिग्रहाम् । अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेरजसेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियभर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥