Skip to main content
Search
Full Chapter
RV • Chapter 9: Canto 9

RV 9.3

Canonical Ref: RV 9.3
Metrical Form: द्रुतविलम्बितम्
Sanskrit (Devanāgarī)
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उभयमिति॥ मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः। बलनिषूदनमिन्द्रम्। दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थं पतिं दशरथं चेत्युभयमेव। समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी। तस्य भावः समयवर्षिता तया हेतुना कृतकर्मणां स्वकर्मकारिणाम्। नुदतीति नुत्। `इगुपधज्ञाप्रीकिरः कः` (पा.3।2।135) इति कप्रत्ययः। श्रमस्य नुदं श्रमनुदम्। क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.2) All Verses in Chapter 9 Next Verse (RV 9.4) →