Skip to main content
Search
Ch. 9 RV 9.20
Full Chapter
RV • Chapter 9: Canto 9

RV 9.20

Canonical Ref: RV 9.20
Metrical Form: द्रुतविलम्बितम्
Sanskrit (Devanāgarī)
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): क्रतुष्विति॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटिन। `यावद्यज्ञमध्वर्युरेव राजा भवति` इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः। `मौलिः किरीटे धम्मिल्ले` इति विश्वः। भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा। अनेन क्षत्रियस्य विजितत्वमुक्तम्। नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते। वितमसा तमोगुणरहितेन तेन दशरथेन। तमसा च सरयू नद्यौ। तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभार्थं विध्यभावात्। `हेमयूपस्तु शोभिकः` इति यादवः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.20. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.19) All Verses in Chapter 9 Next Verse (RV 9.21) →