Skip to main content
Search
Full Chapter
RV • Chapter 9: Canto 9

RV 9.7

Canonical Ref: RV 9.7
Metrical Form: द्रुतविलम्बितम्
Sanskrit (Devanāgarī)
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ उदयाय यतमानमभ्युदयार्थं व्याप्रिमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष। `आक्षोटनं मृगव्यं स्यादाखोटो मृगया स्त्रियाम्` इत्यमरः (अ.को.3|3|180)। दुष्टमासमन्तादुदमस्येति दुरोदरं द्यूतं च नापाहरत्। `दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्` इत्यमरः (अ.को.3|3|180)। शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत्। न वेति पदच्छेदः। `वा`शब्दः समुञ्चये। नमयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत्। जातावेकवचनम्। अत्र मनुः(7।50)`पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम्। एतत्कष्टतमं विद्याञअचतुष्कं कामजे गणे`॥ इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.6) All Verses in Chapter 9 Next Verse (RV 9.8) →