Skip to main content
Search
Ch. 9 RV 9.17
Full Chapter
RV • Chapter 9: Canto 9

RV 9.17

Canonical Ref: RV 9.17
Metrical Form: द्रुतविलम्बितम्
Sanskrit (Devanāgarī)
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ परिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः। तेषां राज्ञां दुहितरः पुत्र्यः। सुमित्राक-कौसल्या-कैकेय्य इत्यर्थः। अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम्। `कदम्बमार्गणशराः` इत्यमरः। तं दशरथँ शिकरिणां क्ष्माभृतां दुहितरः। आ समन्तादपगच्छन्तीति। अथवा, -`आपेनाप्संबन्धिना वेगेन गच्छन्तीत्यापगाः` इति क्षीरस्वामी। नद्यः सागरमिव। पतिं भर्तारमलभन्त प्रापुः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.16) All Verses in Chapter 9 Next Verse (RV 9.18) →