Skip to main content
Search
RV
Raghuvaṁśam • Chapter 06

Canto 6

षष्ठः सर्गः (स्वयंवरवर्णनम्)

Canto 6 of Raghuvaṁśam.

Total: 86 Verses • Citations: RV 6.1–86 • 1 Lexicon Terms • Page 3 of 3 (Verses 26 shown)
RV 6.61 इन्द्रवज्रा
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विन्ध्यस्येति॥ विन्ध्यस्य नाम्नो महाद्रेः। तपनमार्गनिरोधाय वर्धमानस्येति शेषः। संस्तम्भयिता निवारयिता। निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योश्वमेधस्यावभृथे दीक्षान्ते कर्मणि। `दीक्षान्तोऽवभृथो यज्ञे` इत्यमरः (अ.को.2|7|29)। आर्द्रमूर्तेः। स्नातस्येत्यर्थथः। यस्य पाण्ड्यस्य प्रीत्या स्नेहेन। न तु दाक्षिण्येन। सुस्नातं पृच्छतीति सौस्नातिकः। भवति। `पृच्छतौ सुस्रातादिभ्यः`(वा.2953) इत्युपसंख्यानाट्टक् ॥
RV 6.62 उपजातिः
अस्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अस्त्रमिति॥ पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे। इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः॥
RV 6.63 उपजातिः
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ महाकुलीनेन महाकुले जातेन। `महाकुलादञ्खञौ` (पा.4।1।141) इति खञ्प्रत्ययः। अनेन पाण्ड्येन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः। `वोतो गुणवचनात्` (पा.4।1।44)इति ङीष्। महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः। इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम्। दक्षिणस्या दिशः सपत्नी भव। अनेन सपत्न्यन्तराभावो ध्वन्यते ॥
RV 6.64 उपजातिः
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताम्बूलेति॥ ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु। `ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि`इति, `घोण्टा तु पूगः क्रमुकः` इति चामरः। एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु। `गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्` इत्यमरः (अ.को.2|6|132)। तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु। `कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि` इत्यमरः (अ.को.2|6|132)। मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ॥
RV 6.65 इन्द्रवज्रा
इन्दीवरशअयामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इन्दीवरेति॥ असौ नृप इन्दीवरश्यामतनुः, त्वं रोजना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा। ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ॥
RV 6.66 उपजातिः
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वसुरिति॥ विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम्। दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव। अन्तरमवकाशं न लेभे ॥
RV 6.67 उपजातिः
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संचारिणीति॥ पतिंवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सायां द्विर्वचनम्। नरेन्द्रमार्गे राजपथेऽट्टाख्यो गृहभेद इव। `स्यादट्टः क्षौममस्त्रियाम्` इत्यमरः (अ.को.2|2|12)। विवर्णभावं विच्छायत्वम्। अट्टस्तु तमोवृतत्वम्। प्रपेदे ॥
RV 6.68 उपजातिः
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्यामिति॥ तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत्। अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः। केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम्। तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥
RV 6.69 इन्द्रवज्रा
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी । न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्भपदाली ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कुमारी। सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य। अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता। तथा हि-षट्पदानी भृङ्गावलिः। प्रफुल्लतीति प्रफुल्लं विकसितम्। पुष्पितमित्यर्थः। प्रपूर्वात्फुल्लतेः पचाद्यच्। फलतेस्तु प्रफुल्लमिति पठितव्यम्। `अनुपसर्गात्-` (पा.8।2।55) इति निषेधात्। इत्युभयश्चापि न कदाचिदनुपपत्तिरित्युक्तं प्राक्। सहकारं चूतविशेषमेत्य। `आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः` इत्यमरः (अ.को.2|4|33)। वृक्षान्तरं न काङ्क्षति। न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः॥
RV 6.70 उपजातिः
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य । प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम्। इन्दोः प्रभेव प्रभा यस्यास्ताम्। आह्लादकत्वादिन्दुसाम्यम्। इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम्। `प्रथने वाचशब्दे` (पा.3।3।33) इति घञो निषेधात्` , `ॠदोरप्` (पा.3।3।57)इत्यप्प्रत्ययः। `विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः` इत्यमरः (अ.को.3|2|22)। वाक्यं वक्तुं प्रचक्रमे ॥
RV 6.71 इन्द्रवज्रा
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् । काकुत्स्थशब्दं य उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्वाक्किति॥ इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः। नृपाणां ककुदं श्रेष्ठः। `ककुञ्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि` इति विश्वः। आहितलक्षणः प्रख्यातगुणः। `गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ` इत्यमरः (अ.को.3|1|3)। ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत्। यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। `महेच्छस्तु महाशयः` इत्यमरः (अ.को.3|1|3)। उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाध्यं प्रशस्तम्। ककुत्स्थस्यापत्यं पुमान् काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति। तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः। पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथाऽत्रानुसंधेया। वक्ष्यते चायमेवार्थ उत्तरश्लोके ॥
RV 6.72 उपजातिः
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): महेन्द्रमिति॥ यः ककुत्स्थः संयति युद्धे। महानुक्षा महोक्षः। `अचतुर-` (पा.5।4।77) इत्यादिना निपातः। तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य। अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन् बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार। तद्भर्तॄनसुरानवधीदित्यर्थः। न हि विधवाः प्रसाध्यन्त इति भावः॥
RV 6.73 उपजातिः
ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऐरावतेति॥ यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन् संघर्षयन् स्वामग्र्यां श्रेष्ठां मूर्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम्। `अर्धं नपुंसकम्` (पा.2।2।2) इति समासः। अधितष्ठावधिष्ठितवान्। `स्थादिष्वभ्यासेन चाभ्यासस्य` (पा.8।3।64) इत्यभ्यासेन व्यवायेऽपि षत्वम्। न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुरुक्षत्। किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः। अथवा, -अर्धासनमपीत्यपेरन्वयः ॥
RV 6.74 उपजातिः
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जात इति॥ उरुकीर्तिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल। यो दिलीपः शक्राभ्यसूयाविनिवृत्तये। न त्वशक्त्येति भावः। एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुस्तस्य भावे तत्त्वेऽतिष्ठत्। इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः॥
RV 6.75 इन्द्रवज्रा
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् । वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यस्मिन्निति॥ यस्मिन् दिलीपे महीं शासति सति। विहरत्यत्रेति विहारः क्रीडास्थानम्। तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम्। `वाणिनी नर्तकीमत्ताविदग्धवनितासु च` इति विश्वः। `वाणिन्यौ नर्तकीमत्तेै`इत्यमरश्च। अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत्। आहरणायापहर्तुं को हस्तं लम्बयेत्? तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः। अर्धश्चासौ पन्थाश्चेति विग्रहः। समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः ॥
RV 6.76 उपजातिः
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुत्र इति॥ विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव। प्रशास्ति पालयति। यो रघुश्चतसृभ्यो दिग्भ्य आवर्जिताहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूर्ति संपदं मृत्यात्रमेव शेषो यस्यास्तामकरोत्। विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ॥
RV 6.77 उपजातिः
आरूढमद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आरूढमिति॥ किंच, अद्रीनारूढम्। उदधीन्वितीर्णमवगाढम्। सकलभूगोलव्यापकमित्यर्थः। भुजंगमानां वसतिं पातालं प्रविष्टम्। ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम्। इत्थं सर्वदिग्व्यापीत्यर्थः। अनुबध्नातीत्यनुबन्धि चाविच्छेदि। कालत्रयव्यापकं चेत्यर्थः। अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ॥
RV 6.78 उपजातिः
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असावजाख्यः कुमारः। त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव। `जयन्तः पाकशासनिः` इत्यमरः (अ.को.1|1|56)। तं रघुमनुजातः। तस्माज्जात इत्यर्थः। तज्जातोऽपि तदनुजातो भवति; जन्यजनकयोरानन्तर्यात्। `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च` (पा.3।4।72) इति क्तः। सोपसृष्टत्वात्सकर्मकत्वम्। आह चात्रैव सूत्रे वृत्तिकारः-`श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति` इति। दम्यः शिक्षणीयावस्थः। योऽजो गुर्वीं भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति। यथा कश्चिद्वत्सतरोऽपि धुर्येण महोक्षेण समं वहतीत्युपमालंकारो ध्वन्यते। `दम्यवत्सतरौ समौ` इत्यमरः (अ.को.2|9|63) ॥
RV 6.79 उपजातिः
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुलेनेति॥ कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व। किं बहुना, रत्नं काञ्चनेन समागच्छतु संगच्छताम्। प्रार्थनायां लोट्। रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ॥
RV 6.80 उपजातिः
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवरणार्थं स्रजेव कुमारमजं प्रत्यग्रहीत् स्वीचकार। सम्यक्सानुरागमपश्यदित्यर्थः ॥
RV 6.81 उपजातिः
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थिं शालीनतयाऽधृष्टतया। `स्यादधृष्टे तु शालीनः` इत्यमरः (अ.को.3|1|26)। `शालीनकौपीने अधृष्टाकार्ययोः` (पा.5।2।20) इति निपातः। वक्तुं न शशाक। तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन। `व्याजोऽपदेशो लक्ष्यं च` इत्यमरः (अ.को.1|7|34)। गात्रयष्टिं भित्त्वा निराक्रामत्। सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ॥
RV 6.82 उपजातिः
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे । आर्ये! व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ सख्यामिन्दुमत्यां तथागतायां तथाभूतायाम्। दृष्टानुरागायां सत्यामित्यर्थः। सखी सहचरी। `सख्यशिश्वीति भाषायाम्` (पा.4।1।62) इति निपातनान्ङीष्। वेत्रभृत् सुनन्दा। हे आर्ये पूज्ये! अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमाबभाषे। अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण कुटिलं ददर्श। अन्यागमनस्यासह्यत्वादित्यर्थः ॥
RV 6.83 इन्द्रवज्रा
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ करभः करप्रदेशविशेषः। `मणिबन्धादाकनिष्ठं करस्य करभो बहिः` इत्यमरः। करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरुः। `ऊरूत्तरपदादौपम्ये` (पा.4।1।69)इत्यूङ्प्रत्ययः। सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजम्। मूर्तं मूर्तिमन्तमनुरागमिव। धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास। न तु स्वयमाससञ्ज, अनौचित्यात् ॥
RV 6.84 उपेन्द्रवज्रा
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तयेति॥ वरेण्यो वरणीय उत्कृष्टः। वृञ एण्यः। सोऽजो मङ्गलपुष्पमय्या मधुकादिकुसुममय्या विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया स्रजा विदर्भराजावरजामिन्दुमतीं कण्ठार्तितौ बाहू एव पाशौ यया ताममंस्त। मन्यतेर्लुङ्। बाहुपाशकल्पसुखमन्वभूदित्यर्थः ॥
RV 6.85 मालिनी
शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शशिनमिति॥ तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमती-रघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः इयमजसंगतेन्दुमती मेघैर्मुक्तं शशिनं शरञ्चन्द्रमुपगता कौमुदी। अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी। तत्सदृशीत्यर्थः। इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवव्रुः। मालिनीवृत्तम् ॥
RV 6.86 पुष्पिताग्रा
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् । उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रमुदितेति॥ एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य तत्तथोक्तम्। अन्यतोऽन्यत्र वितानं शून्यम्। भग्नाशत्वादप्रहृष्टमित्यर्थः। तत्क्षितिपतिमण्डलम्। उषसि प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिर्द्रप्राप्तनिमीलनं सर इव सरस्तुल्यम्। आसीत्। पुष्पिताप्रावृत्तमेतत् ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →