Skip to main content
Search
RV
Raghuvaṁśam • Chapter 19

Canto 19

एकोनविंशः सर्गः (अग्निवर्णशृङ्गारः)

Canto 19 of Raghuvaṁśam.

Total: 57 Verses • Citations: RV 19.1–57 • 1 Lexicon Terms • Page 2 of 2 (Verses 27 shown)
RV 19.31 रथोद्धता
मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः । विद्म हे शठ! पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मित्रेति॥ मित्रकृत्यं सुहृत्कार्यमपिदिश्य व्याजीकृत्य पार्श्वतः प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रियाः, हे शठ हे गूढविप्रियकारिन्। `गूढविप्रियकृच्छठः`(2।7) इति दशरूपके। तव पलायनस्य छलान्यञ्जसा तत्त्वतः। `तत्त्वे त्वद्धाञ्जसा द्वयम्` इत्यमरः (अ.को.3|4|12)। विद्म जानीमः। `विदो लटो वा` (पा.3।4।83) इति वैकल्पिको मादेशः। इति उक्त्वेति शेषः। कचग्रहैः केशकर्षणै रुरुधुः। अत्र गोनर्दीयः-`ऋतुस्नाताभिगमने मित्रकार्ये तथापदि। त्रिष्वेतेषु प्रियतमः क्षन्तध्यो वारगम्यया।` इति। विरक्तलक्षणप्रस्तावे वात्स्यायनः-`मित्रकृत्यं चापदिश्यान्यत्र शएते` इति ॥
RV 19.32 उपजातिः
तस्य निदयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः । अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङअगनविशेषमषदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म। कण्ठसूत्रलक्षणं तु -`यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूढम्। परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः`। इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम्। तथा हि-`उरसि कमितुरुञ्चैरादिशन्ती वराङ्गी स्तन्युगमुपधत्ते यत्स्तनालिङ्गनं तत्` इति ॥
RV 19.33 रथोद्धता
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः । वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संगमायेति॥ संगमास्य सुरतार्थं निशइ गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी। तं चारदूतिकथितम्। चरन्तीति चारा गूढचारिण्यः। `ज्वलितिकसन्तेभ्यो णः` (पा.3।1।140) इति णप्रत्ययः। चाराश्च ता दूत्यश्च चारदूतयः। ताभिः कथितं निवेदितं तमग्निवर्णम्। अङ्गनाः पुरोऽग्रे गताः। अवरुद्धमार्गाः सत्य इत्यर्थः। हे कामुक!तमसा वृतो गूढः सन् कुतो वञ्चयिष्यसीति। उपालभ्येति शेषः। चकृषुः। स्ववासं निन्युरित्यर्थः ॥
RV 19.34 उपजातिः
योषितामुडुपतेरिवार्चिषां स्पर्शनिर्वृत्तिमसाववाप्नुवन् । आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): योषितामिति॥ उडुपतेरिन्दोरर्चिषां भासामिव। `ज्वाला भासो न पुंस्यर्चिः` इत्यमरः। योषितां स्पर्शनिर्वृत्तिं स्पर्शसुखमवाप्नुवन्। किंच, रात्रिषु जागरपरः। दिवा दिवसेषु शेते स्वपितीति दिवाशयः। `अधिकरणे क्षेतेः` (पा.3।2।15) इत्यच्प्रत्ययः। असावग्निवर्णः कुमुदाकरस्योपमां साम्यम्। आरुरोह प्राप ॥
RV 19.35 रथोद्धता
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः । शिल्पकार्य उभयेन वेजितास्तं विजिह्यनयना व्यलोभयन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वेणुनेति॥ दशनैः पीडिताधरादष्टोष्ठाः। नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः। व्रणिताधरोरुत्वादक्षमा इत्यर्थः। तथापि वेणुना वीणया चेत्युभयेन। अधरोरुपीडाकरेणेत्यर्तः। वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः। `कर्मण्यण्` (पा.3।2।1) इत्यण्। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। तं विजिह्यनयनाः कुटिलदृष्टयः सत्यः। स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन्। तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ॥
RV 19.36 रथोद्धता
अङ्गसत्त्ववचजनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् । स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अङ्गेति॥ अङ्गं हस्तादि। सत्त्वमन्तःकरणम्। वचनं गेयं च श्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम्। आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः। यथाह भरतः-`सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः` इति। नृत्यमभिनय मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन्। स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाट्याचार्यैः सह संजघर्षं संघर्षं कृतवान्। संघर्षः पराभिभवेच्छा ॥
RV 19.37 उपजातिः
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः । प्रावृषि प्रमदबहिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अंसेति॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य। नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्याग्निवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥
RV 19.38 रथोद्धता
विग्रहाञ्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे । आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विग्रहादिति॥ `प्रावृषि` इत्यनुषज्यते। सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयेन पराङ्मुखीरबला अनुनेतुं न तत्वरे न त्वरितवान्। किंतु घनशब्देन घनगर्जितेन विक्लवाश्चिकिताः, अत एव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः। `आच्छीनद्योर्नुम्` (पा.7।1।80) इति नुम्विकल्पः। ता अबला आचकाङ्क्ष। स्वयंग्रहादेव सांमुख्यमैच्छदित्यर्थः ॥
RV 19.39 रथोद्धता
कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः । अन्वभुङ्क्तसुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कार्तिकीष्विति॥ कार्तिकस्येमाः कार्तिक्यः। `तस्येदम्` (पा.4।3।120) इत्यण्। तासु यामिनीषु निशासु। शरद्रात्रिष्वित्यर्थः। सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक्। भजेर्ण्विप्रत्ययः। हिमवारणार्थं सवितानमुक्तम्। ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता च सा विशदा च ताम्। बहुलग्रहणात्सविशेषणसमासः। चन्द्रिकामन्वभुङ्क्त ॥
RV 19.40 रथोद्धता
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् । स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सैकतमिति॥ किंच, हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव विवृण्वतीम्। अत एव स्वप्रियाविलसितान्यनुकरोतीति तद्विधां सरयूम्। सौधस्य जालानि गवाक्षाः। त एव विवराणि। तैर्व्यलोकयत् ॥
RV 19.41 रथोद्धता
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः । जह्नुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः। `अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्` इत्यमरः। अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हैमनैर्हेमन्ते भवैः। `सर्वत्राण्च तलोपश्च` (पा.4।3।22) इति `हिमन्त` शब्दादण्प्रत्ययस्तलोपश्च। निवसनैरंशुकैः सुमध्यमाः स्त्रियः एकतो नितम्बैकदेश आग्रथनमोक्षयोर्नीवीबन्ध-विस्रंसनयोर्लोलुपमासक्तं तं जह्नुराचकृषुः ॥
RV 19.42 रथोद्धता
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अर्पितेति॥ निपाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्मिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः। अत्रानिमिषदृष्टित्वं च गम्यते। सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्वाद्दीर्घकालत्वाञ्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः। विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः ॥
RV 19.43 रथोद्धता
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ष। अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दक्षिणेनेति॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्य। अवधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः। तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ॥
RV 19.44 रथोद्धता
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन् भयाच्छलात्पतनभयमिषाद्वाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप। स्वयंग्रहाश्लेषशुखमन्वभूदित्यर्थः ॥
RV 19.45 रथोद्धता
तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रियाः पयोधऱेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः। मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः। मुक्ताप्रायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविधइनिरुष्णकालोचितनेपथ्यविधानैः। शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे ॥
RV 19.46 रथोद्धता
यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो योस्मिस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपौ। इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात् कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ॥
RV 19.47 रथोद्धता
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान्। अयमृतुरिदानीं वर्तत इति ज्ञापितान्। ऋतून्वर्षादीन्। अत्यवाहयदगमयत् ॥
RV 19.48 रथोद्धता
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः। रतिरागसंभव आमयो व्याधिस्तु। क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शात्पश्चन्द्रमिव। अक्षिणोदकर्शयत्। शापोऽपि रतिरागसंभव इति। अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप। स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ॥
RV 19.49 रथोद्धता
दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दृःखमिन्द्रियगणो निवार्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दृष्टेति॥ भिषजां वैद्यानामनाश्रवो वचसि न स्थितः। `वचने स्वित आश्रवः` इत्यमरः। अविधेय इत्यर्थः। स दृष्टदोषमपि। रोगजननादिति शेषः। ततत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत्। तथा हि-इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते। यदि वार्येतेति शेषः। दुस्त्यजाः खलु विषया इत्यर्थः ॥
RV 19.50 रथोद्धता
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य राज्ञः पाण्डुवदना। अल्पभूषणा परिमिताभरणा। सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना। मृदुस्वना हीनस्वरा। राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा। कामयते विषयानिच्छति कामयानः कामयमानः। कमेर्णिङन्ताच्छानच्। `अनित्यमागमशासनम्` इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि (का.सू.5।2।83) `कामयानशब्दः सिद्धोऽनादिश्च` इति। तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययौ प्राप। कालकृतो विशेषोऽवस्था। `विशेषः कालिकोऽवस्था` इत्यमरः (अ.को.1|4|31) ॥
RV 19.51 रथोद्धता
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्योमिति॥ राज्ञि क्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थइत इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव। `वा`शब्द इवार्थे। यथाह दण्डी-`इववद्वायथाशब्दौ` इति। पङ्कशेषं घर्मपल्वलमिव वामनार्चिरल्पशिस्त्रं दीपभाजनं दीपपात्रमिवाभूत् ॥
RV 19.52 रथोद्धता
बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने । इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बाढमिति॥ बाढं सत्यमेव पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति। इत्येवमदर्शितरुजो निगूहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः ॥
RV 19.53 रथोद्धता
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् । वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि। पावनीं पितॄणमोचनीं संततिमनवलोक्य। पुत्रमनवाप्येत्यर्थः। वैद्ययत्नपरिभाविनं गदं रोगम्। प्रदीपो वायुविव। नात्यगान्नातिचक्राम। ममारेत्यर्थः ॥
RV 19.54 रथोद्धता
तं गृहोपवन एव संगगताः पश्चिमक्रतुविदा पुरोधसा । रोगशान्तिमपदिश्य मन्त्रिणः संभृते शइखिनि गूढमादधुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ पश्चिमक्रतुविदाऽन्त्येष्टिविधिज्ञेन पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव। `आरामः स्यादुपवनम्` इत्यमरः (अ.को.2|4|2)। दोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुर्निदधुः ॥
RV 19.55 रथोद्धता
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी । साधु दृष्टशुभगर्भलभक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तैरिति॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्ना तस्याग्निवर्णस्य सहचारिणी नराधिपश्रियं प्रत्यपद्यत राज्यलक्ष्मीं प्राप ॥
RV 19.56 वसन्ततिलका
तस्यास्तथाविधनरेन्द्रविपत्तिशोका- दुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ तथाविधया नरेन्द्रविपत्त्या यः शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाऽभिषेकजलेन निर्वापित आप्यायितः ॥
RV 19.57 मन्दाक्रान्ता
तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना- मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रसवो गर्भमोचनम्। फलं च विवक्षितम्। `स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने` इत्यमरः (अ.को.3|3|219)। तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय। भूतय इत्यर्थः। `भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु` इति यादवः। क्षितिरन्दर्गूढं नभोबीजमुष्टिमिव। श्रवणमास्युप्तं बीजमुष्टिं यथा-धत्ते तद्विदित्यर्थः। `मुष्टि` शब्दो द्विलिङ्गः। `अक्लीबौ मुष्टिमुस्तकौ` इति यादवः। अन्तर्गूढमन्तर्गतं गर्भं दधाना हेमसिंहासनस्थाऽव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा। आप्तैरित्यर्थः। स्थिविरसचिवैर्बृद्धामात्यैः। सार्धं भर्तू राज्यं विधिवद्विष्यर्हम्। यथाशास्त्रमित्यर्थः। अर्हार्थे वतिप्रत्ययः। अशिषच्छास्ति स्म। `सर्तिशास्त्यर्तिभ्यश्च (पा.3।1।76) इति च्लेरङ्। `शासइदङ्हलोः` (पा.6।4।34) इतीकारः ॥
← Previous (Ch. 18) Full Table of Contents