Skip to main content
Search
Ch. 19 RV 19.48
Full Chapter
RV • Chapter 19: Canto 19

RV 19.48

Canonical Ref: RV 19.48
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः। रतिरागसंभव आमयो व्याधिस्तु। क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शात्पश्चन्द्रमिव। अक्षिणोदकर्शयत्। शापोऽपि रतिरागसंभव इति। अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप। स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 19.48. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 19.47) All Verses in Chapter 19 Next Verse (RV 19.49) →