Skip to main content
Search
Ch. 19 RV 19.57
Full Chapter
RV • Chapter 19: Canto 19

RV 19.57

Canonical Ref: RV 19.57
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना- मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना । मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रसवो गर्भमोचनम्। फलं च विवक्षितम्। `स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने` इत्यमरः (अ.को.3|3|219)। तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय। भूतय इत्यर्थः। `भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु` इति यादवः। क्षितिरन्दर्गूढं नभोबीजमुष्टिमिव। श्रवणमास्युप्तं बीजमुष्टिं यथा-धत्ते तद्विदित्यर्थः। `मुष्टि` शब्दो द्विलिङ्गः। `अक्लीबौ मुष्टिमुस्तकौ` इति यादवः। अन्तर्गूढमन्तर्गतं गर्भं दधाना हेमसिंहासनस्थाऽव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा। आप्तैरित्यर्थः। स्थिविरसचिवैर्बृद्धामात्यैः। सार्धं भर्तू राज्यं विधिवद्विष्यर्हम्। यथाशास्त्रमित्यर्थः। अर्हार्थे वतिप्रत्ययः। अशिषच्छास्ति स्म। `सर्तिशास्त्यर्तिभ्यश्च (पा.3।1।76) इति च्लेरङ्। `शासइदङ्हलोः` (पा.6।4।34) इतीकारः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 19.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 19.56) All Verses in Chapter 19