Skip to main content
Search
RV
Raghuvaṁśam • Chapter 11

Canto 11

एकादशः सर्गः (सीताविवाहवर्णनम्)

Canto 11 of Raghuvaṁśam.

Total: 93 Verses • Citations: RV 11.1–93 • 1 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
RV 11.31 रथोद्धता
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाक्लुतो मुनिः । आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ अवभृथे दीक्षान्त आप्लुतः स्नातो मुनिः। `दीक्षान्तोऽवभृथो यज्ञे` इत्यमरः (अ.को.2|7|29)। प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तः प्रदेशेन। पवित्रेणेत्यर्थः। पाणिना समस्पृशत् संस्पृष्टवान्। संतोषादिति भावः ॥
RV 11.32 रथोद्धता
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी । राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान्। वशी स मुनिर्मिथिलां जनकनगरीं व्रजन्, तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ॥
RV 11.33 रथोद्धता
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तैरिति॥ गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थआनमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी। `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः (अ.को.3|3|252)। अहल्येति यावत्। वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥
RV 11.34 रथोद्धता
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शइलामयी । स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यपद्यतेति॥ शिलामयी भतृशापाच्छिलत्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती। यत् स किल्बिषच्छिदां पापहारिणाम्। `पापं किल्बिषकल्मषम्` इत्यमरः (अ.को.1|4|24)। रामपादरजसामनुग्रहः किलप्रसादः किलेति श्रूयते ॥
RV 11.35 रथोद्धता
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): राघवेति॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य। अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम्। मूर्तिमन्तमित्यर्थः। वाहिताग्न्यादित्वात्साधुः। धर्ममिव। सपर्ययाऽभ्यगात् प्रत्युद्गतवान् ॥
RV 11.36 रथोद्धता
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू । मन्यते स पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ दिवः सुरवर्त्मन आकाशात्। `द्यौः स्वर्गसुरवर्त्मनोः`इति विश्वः। गां भुवं गतौ। `स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः` इत्यमरः। पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ। तौ राघवौ विलोचनैः पिबताम्। अत्यास्थया पश्यतामित्यर्थः। विदेहनगरी मिथिला। तन्निवासिनां मनः कर्तृ पक्ष्मपातं निमेषमपि तद्दर्शनप्रतिबन्धकत्वाद्वञ्जनां विडम्बनां मन्यते स्म मेने। `लट् स्मे` (पा.3।2।118) इति भूतार्थे लट् ॥
RV 11.37 रथोद्धता
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यूपेति॥ यूपवति क्रियाविधौ कर्मानुष्ठाने। क्रतावित्यर्थः। अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धनः स मुनी रामम्। अस्यतेऽनेनेत्यसनम्, इषूणामसनमिष्वसनं चापम्। तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥
RV 11.38 रथोद्धता
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः । स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ पार्थिवा जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य। स्वं स्वकीयं दुरानममानमयितुमशक्यम्। नमेर्ण्यन्तात्खल्। धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेवयम्। `शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च` इति विश्वः। तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या। `संस्था स्थितौ शरे नाशे` इति विश्वः। पीडितो बाधितः। शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥
RV 11.39 रथोद्धता
अव्रवीञ्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् । तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अब्ववीदिति॥ अब्रवीञअच। मुनिमिति शेषः किमिति? हे भगवन्मुने! बृहद्भिर्मतंगजैर्महागजैपरि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य । `कलभः करिशावकः` इत्यमरः (अ.को.2|8|35)। मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ॥
RV 11.40 रथोद्धता
ह्रेपिता हि बहवो नरेश्वरास्तेन तात! धनुषा धनुर्भृतः । ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ह्रेपिता इति॥ हे तात! तेन धनुषा बहवो धनुर्भृतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि। जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः। `अर्तिह्री-` (पा.7।3।36) इत्यादिना पुगागमः। ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ॥
RV 11.41 रथोद्धता
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् । चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ ऋषिस्तं प्रत्युवाच। किमिति? अयं रामः सारतो बलेन निशम्यतां श्रूयताम्। अथवा गिरा । सारवर्णनया कृतमलम्। गीर्न वक्तव्येत्यर्थः। `युगपर्याप्तयोः कृतम्` इत्यमरः (अ.को.3|3|84)। अव्ययं चैतत्। `कृतं निवारणनिषेधयोः` इति गणव्याख्याने। `गिरा`इति करणे तृतीया; निषेधक्रियां प्रति करणत्वात्। किंत्वशनिर्वज्रो गिराविव। चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥
RV 11.42 रथोद्धता
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे । श्रद्धधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम्। `हायनान्तयुवादिभ्योऽण्` (पा.5।1।130)इति युवादित्वादण्। `पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि`इति विश्वः। त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः। `प्रमाणे द्वयसच्-` (पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। ततः स्वार्थे कप्रत्ययः। तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव। श्रद्वधे विश्वस्तवान् ॥
RV 11.43 रथोद्धता
व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः । तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्यादिदेशेति॥ अथ मैथिलः पार्श्वगान्पुरुषान् कार्मुकाभिहरणाय कार्मुकमानेतुम्। `तुमर्थाञ्च-` (पा.2।3।15) इति चतुर्थी। सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय अविर्भावाय तोयदान्भेधानिव गणशः गणान्। `संख्यैकवचनाञ्च वीप्सायाम्` (पा.5।4।43)इति शस्प्रत्ययः। व्यादिदेश प्रजिघाय ॥
RV 11.44 रथोद्धता
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः । विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुर्वीक्ष्याददे जग्राह। वृषो ध्वजश्चिह्नं यस्य स शिवो येन धनुषा। क्रतुरेव मृगः। विद्रुतं पलायितं क्रतुमृगमनुसरति। ताच्छील्ये णिनिः। तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥
RV 11.45 रथोद्धता
आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः । शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आततेति॥ स रामः संसदा सभया विस्मयेन स्तिमिते नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन्। शैलस्येव सारो यस्य तच्छैलसारमपि धनुः। स्मरः पेशलं कोमलं पुष्पचापमिव। नातियत्नतो नातियत्नात्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। आततज्यमधिज्यम्। अकरोत् ॥
RV 11.46 रथोद्धता
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः । भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भज्यमानमिति॥ तेन रामेण। अतिमात्रकर्षणाद्भज्यमानम्, अत एव वज्रपरुषस्वनं। वज्रमिव परुषः स्वनो यस्य तत्। धनुः कर्तृ। दृढमन्यवे दृढक्रोधाय। `मन्युः क्रोधे क्रतौ दैन्ये` इति विश्वः। भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतमिति न्यवेदयदिव ज्ञापयामासेव ॥
RV 11.47 रथोद्धता
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः । राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दृष्टेति॥ अथ मैथइलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य दद्दृष्टसारम्। `सारो बले स्थिरांशे च` इत्यमरः (अ.को.3|3|179)। वीर्यमेव शुल्कम्। धनुर्भङ्गरूपमित्यर्थः। अभिनन्द्य। राघवाय रामाय। अयोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान्। वाचेति शेषः ॥
RV 11.48 रथोद्धता
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मैथिल इति॥ सत्यसंगरः सत्यप्रतिज्ञः। `अथ प्रतिज्ञाजिसंविदापत्सु संगरः` इत्यमरः। मैथिलो राघवाय। अयोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ। अग्निः साक्षी यस्य सोऽग्निसाक्षिकः। `शेषाद्विभाषा` (पा.5।4।154)इति कप्प्रत्ययः। स इव। सपद्यतिसृष्टवान् दत्तवान् ॥
RV 11.49 रथोद्धता
प्राहिणोञ्च महितं महाद्युतिः कोसलाधिपतये पुराधसम् । भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्राहिणोदिति॥ महाद्युतिर्जनको महितं पूजितं पुरोधसं पुरोहितं कोसलाधिपतये दशरथाय प्राहिणोत् प्रहितवांश्च। किमिति? निमिर्नाम जनकानां पूर्वजः कश्चित्। इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात् स्नुषात्वेन स्वीकाराद्धेतोः। भृत्यस्य भावो भृत्यत्वम्। सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति ॥
RV 11.50 रथोद्धता
अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अन्वियेषेति॥ स दशरथशअच सदृशीमनुरूपां स्नुषामन्वियेष। रामविवाहमाचकाङ्क्षेत्यर्थः। अनुकूलवाक् स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्च। एनं दशरथं प्राप। तथा हि-कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि। कर्मकर्तरि लट्। स्वयमेव पक्वं भवतीत्यर्थः। `कर्मवत्कर्मणा तुल्यक्रियः` (पा.3।1।87) इति कर्मवपद्भावात् `भावकर्मणोः` (पा.1।3।13) इत्यात्मनेपदम् ॥
RV 11.51 रथोद्धता
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः । उञ्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ बलभित्सख इन्द्रसहचरो वशी स्वाधानतावान्। `वश आयत्ततार्या च` इति विश्वः। कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवान् श्रुतवान्। शृणोतेः क्वसुः। सैन्यरेणुमुषितार्कदीधितिः सन्, उञ्चचाल प्रतस्थे ॥
RV 11.52 रथोद्धता
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः । प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आससादेति॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन् परिधीकुर्वन्। आससाद। सा पुरी। स्त्री युवतिः। आयतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधम्। असहिष्ट सोढवती, द्वेषरोधं तु न सहत इति भावः ॥
RV 11.53 रथोद्धता
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ समये स्थितावाचारनिष्ठौ । `समयाः शपथाचारकालसिद्धान्तसंविदः` इत्यमरः (अ.को.3|3|157)। वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ। तावुभौ भूपती जनक-दशरथौ समेत्य। स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ। तनोतेर्लिट् ॥
RV 11.54 रथोद्धता
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौं वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पार्थिवीमिति॥ उद्वहतीत्युद्वहः। पचाद्यच्। रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी। `तस्यापत्यम्` (पा.4।1।92) इति `टिड्ढाणञ्` (पा.4।1।15) इति ङीप्। तां सीतामुदवहत् परिणीतवान्। अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौरसीमूर्मिलामुदवहत्। यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरत-शत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चोदवहताम्। नात्र व्युत्प्रमविवाहदोषः; भिन्नोदरत्वात्। तदुक्तम्-`पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च। विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम् ॥` इति ॥
RV 11.55 रथोद्धता
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधइभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त इति॥ ते चतुर्थसहितास्त्रयः। चत्वार इत्यर्थः। वृत्तानुसारादेवमुक्तम्। सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्यसामदानविधिमेदनिग्रहाश्चत्वार उपाया इव बभुः। विधीयत इति विधिः। दानमेव विधिः। निग्रहो दण्डः। सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसंधेयम् ॥
RV 11.56 रथोद्धता
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन्। ते च ताभिस्तथा। किंच, स वराणां वधूनां च समागमः। प्रत्ययानां प्रकृतीनां च योग इव संनिभातीति संनिभः। अभवत्। पचाद्यच्। प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः। यथा प्रकृति-प्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥
RV 11.57 रथोद्धता
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमात्तरतिरनुरागवान् स दशरथस्तांश्चतुरोऽप्यात्मसंभवान् पुत्रांस्तत्र, मिथिलायां निवेश्य विवाह्य। `निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः` इति विश्वः। त्रिष्वध्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन्। स्वां पुरीं न्यवर्तत। उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥
RV 11.58 रथोद्धता
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ जातु कदाचितद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः। उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव। `जानपदकुण्ड-` (पा.4।1।42)इत्यादिना ङीप्। तस्य वरूथिनीं सेनां भृशतया मृशं चिक्लिशुः क्लिश्यन्ति स्म ॥
RV 11.59 रथोद्धता
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः । वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्यत इति॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेषस्य परिधेर्मण्डलं यस्य सः। `परिवेषस्तु परिधिरुपसूर्यकमण्डले` इत्यमरः (अ.को.1|3|36)। रविः। वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन। `भोगः सुखे स्त्रअयादिभृतावहेश्च फणकाययोः` इत्यमरः (अ.को.1|3|36)। वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ॥
RV 11.60 रथोद्धता
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्येनेति॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः। सांध्यमेधा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः। रजो धूलिरासामस्तीति रजस्वलाः। `रजः कृष्यासुतिरपरिषदो वलच्` (पा.5।2।112)इति वलच्प्रत्ययः। दिशः। रजस्वला ऋतुमत्योऽङ्गना इव। `स्याद्रजः पुष्पमार्तवम्` इत्यमरः (अ.को.2|6|21)। अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्र, -दृष्टिदोषात्, परत्र, -शास्त्रदोषादिति विज्ञेयम्। अत्र रजोवृष्टिरुत्पात उक्तः ॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →