Skip to main content
Search
RV
Raghuvaṁśam • Chapter 11

Canto 11

एकादशः सर्गः (सीताविवाहवर्णनम्)

Canto 11 of Raghuvaṁśam.

Total: 93 Verses • Citations: RV 11.1–93 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
RV 11.1 रथोद्धता
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये । काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कौशिकेनेति॥ कौशिकेन कुशिकापत्येन विश्वामित्रेण। एत्याभ्यागत्य। स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय। काकपक्षधरं बालकोचितशिखाधरम्। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः` इति हलायुधः। रामं याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। `अप्रधाने दुहादीनाम्` इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि। अप्रप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धतावृत्तम्। उक्तं च-`रान्नराविह रथोद्धता लगौ` इति ॥
RV 11.2 रथोद्धता
कृच्छ्रलब्धमपि लब्धवर्णभाक्यं दिदेश मुनये सलक्ष्मणम् । अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कृच्छ्रलब्धमिति॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। `सब्धवर्णो विचक्षणः` इत्यमरः (अ.को.2|7|6)। तान्भजत इति लब्ध्वर्णभाक्। विद्वत्सेवीत्यर्थथः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथा हि-असुप्रणयिनां प्राणार्थिनामप्यर्थिता याञ्चा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्भिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥
RV 11.3 रथोद्धता
यावदादिशति पार्थिवास्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् । तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यावदिति॥ पार्थिवः पृथिवीश्वरः। तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः। अनेन धूमिसंमार्जनं गम्यते। सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाऽऽशु विदधे विहिता। एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥
RV 11.4 रथोद्धता
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः। अत एव नम्नयोः प्रणतयोः। `नमिकम्पि-` (पा.3।2।167)इति रप्रत्ययः। तयोरुपरि निपेततुः पतिताः ॥
RV 11.5 रथोद्धता
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ। `शिखा चूडा शिखण्डः स्यात्` इत्यमरः। `शेषाद्विभाषा` (पा.5।4।154) इति कप्प्रत्ययः। धन्विनौ तावुभौ। पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ। संघशो निरीक्ष्यमाणावित्यर्थः। तमृषिमन्वगच्छताम् ॥
RV 11.6 रथोद्धता
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लक्ष्मणेति॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुगं तं राघवं नेतुमैच्छदिति हेतोः, असौ नृप आशिषं प्रयुयुजे प्रयुक्तवान्। वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान्। हि यस्मात् साऽऽशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥
RV 11.7 रथोद्धता
मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेचतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मातृवर्गेति॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ। कृतमातृवर्गनमस्कारावित्यर्थः। `स्पृशोऽनुदके क्क्न्` (पा.3।2।58) इति क्किन्प्रत्ययः। तौ महौजसो मुनेः पदवीं प्रपद्य। महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः। `फणां च सप्तानाम्` (पा.6।4।125) इति वैकल्पिकावेत्वाभ्यासलोपौ। `स्याञ्चैत्रे चैत्रिको मधुः`इति। `वैशाखे माधवो राधः` इति चामरः ॥
RV 11.8 रथोद्धता
वीचिलोलभुजयोस्तयोर्गतं शैशवाञ्चपलमप्यशोभत । तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वीचीति॥ विचिलोलभुजयोस्तरङ्गचञ्चलबाह्वोः। इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम्। तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत। किमिव? तोयदागमे वर्षासमये। उज्झत्युदकमित्युद्ध्यः। भिनत्ति कूलमिति भिद्यः, `भिद्योद्ध्यौ नदे` (पा.3।1।115) इति क्यबन्दौ निपातितौ। उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झन-कूलभेदनरूपव्यापार इव। समयोत्पन्नं चापलमपि शोभत इति भावः ॥
RV 11.9 रथोद्धता
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः । मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविवि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिबलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्सतुः। न म्लानावित्यर्थः। अत्र रामायणश्लोकः(बाल.23।18)-`क्षुत्पिपासे न ते राम! भविष्येते नरोत्तम!। बलामतिबलां चैव पठतः पथि राघवो!॥` इति॥
RV 11.10 रथोद्धता
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पूर्वेति॥ वाहनोचितः। सानुजो राघवः। पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव। वहेर्धातोः कर्मणि शानच्। `उह्यमानः`इत्यत्र दीर्घादिरपपाठः; दीर्घप्राप्त्यभावात्। पादचारमपि न व्यभावयन्न ज्ञातवान् ॥
RV 11.11 रथोद्धता
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः । वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ तौ राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः। सुखयन्तीति सुखानि। पचाद्यच्। श्रुतीनां सुखानि। तैः कूजितैः। वायवः सुरभिपुष्परेणुभिः जलदाश्छायया च। सिषेविरे इति सर्वत्र संबध्यते ॥
RV 11.12 रथोद्धता
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ तप एषामस्तीति तपस्विनः। `तपःसहस्राभ्यां विनीनी` (पा.5।2।102) इति विनिप्रत्ययः। लघुना। `त्रिष्विष्टेऽल्पे लघुः` इत्यमरः (अ.को.3|3|33)। तयोरुभयोः कर्मभूतयोः। दर्शनेन यथा प्रीतिमापुः। तथा कमलशोभिनामम्भसां दर्शनेन नापुः। परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥
RV 11.13 रथोद्धता
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थाण्विति॥ स आत्तकार्मुकः। दशरथस्यापत्यं पुमान् दाशरथी रामः। `अत इञ्` (पा.4।1।95) इतीञ्प्रत्ययः। स्थाणुर्हरः। `स्थाणुः कीले हरे स्थिरे` इति विश्वः। तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन। `विग्रहः समरे काये` इति विश्वः। प्रतिनिधिः प्रतिकगृतिः सदृशोऽभवत्, कर्मणा न पुनः, देहेन मदनसुन्दर इति भावः ॥
RV 11.14 रथोद्धता
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि । निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ अत्र रामायणवचनम्(बाल.25।12-13)-`अगस्त्यः परम कुद्धस्ताडकामभिशप्तवान्। पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपमपाहाय दारुणं रूपमस्तु ते॥` इति। तदेतदाह-विदितशापयेति। कौशिकादाख्यातुः `आख्यातोपयोगे` (पा.1।4।29) इत्यपादानात्पञ्चमी। विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि। `खिलमप्रहतं स्थानम्` इति हलायुधः। तौ रामलक्ष्मणौ। स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ। `कोटिरस्याटनिः` इत्यमरः (अ.को.2|8|84)। लीलयैव धनुषी। अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये। `ज्या मौर्वीमातृभूमिषु`इति विश्वः। तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ। नयतिर्द्विकर्मकः ॥
RV 11.15 रथोद्धता
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ज्येति॥ अथ तयोर्ज्यानिनादं गृह्णती जानती। शृण्वतीत्यर्थः। बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा। `बहुलः कृष्णपक्षे च`इति विश्वः। चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका। निबिडा सान्द्रा बलाकिनी बलाकावती। `व्रीह्यादिभ्यश्च` (पा.5।2।116) इतीनिः। कालिकेव घनावलीव। `कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ` इति विश्वः। प्रादुरास प्रादुर्बभूव॥
RV 11.16 रथोद्धता
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया । अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तीव्रेति॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया। प्रेतचीवराणि वस्त इति प्रेतचीवरवाः तया प्रेतचीवरवसा। वसतेराच्छादनार्थात्क्विप्। स्वनेन सिंहनादेनोग्रया तया ताडकया। पितृकानने श्मशान उत्थोत्पन्ना। `आतश्चोपसर्गे` (पा.3।3।106) इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः। तया वात्ययेव वातसमूहेनेव॥ `पाशादिभ्यो यः` (पा.4।2।49)इति यः। भरताग्रजो रामोऽभ्यभाव्यभिभूतः। कर्मणि लुङ्। तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥
RV 11.17 रथोद्धता
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् । तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उद्यतेति॥ उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम्। आयतीमायान्तीम्। इणो धातोः शतरि `उगितश्च` (पा.4।1।6) इति ङीप्। श्रोणिलम्बिनी पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम्। इति विशेषणद्वयेनाप्याततायित्वं सूचितम्। अत एव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा। `जुगुप्साकरुणे घृणे` इत्यमरः (अ.को.3|3|58)। पत्रिणेषुणा सह। `पत्री रोप इषुर्द्वयोः` इत्यमरः (अ.को.2|8|87)। मुमोच मुक्तवान्। आततायिवधे मनुः(8।350)-`आततायिनमायान्तं हन्यादेवाविचारयन्। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन।` इति ॥
RV 11.18 रथोद्धता
यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ स रामसायकः शिलावद्धने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य। अप्रविष्टरक्षोदेशस्येत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। `विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च`इति विश्वः। अन्तकस्य यमस्य द्वारतामगमत्। इयं प्रथमा रक्षोमृतिरिति भावः ॥
RV 11.19 रथोद्धता
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बाणेति॥ बाणभिन्नहृदया निपेतुषी निपतिता सती। `क्कसुश्च` (पा.3।2।107)इति क्वसुप्रत्ययः। `उगितश्च` (पा.4।1।6) इति ङीप्। सा केवला मेकाम्। `निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः` इत्यमरः (अ.को.3|3|212)। स्वकाननभुवं न व्यकम्पयत्। किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत्। ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥
RV 11.20 रथोद्धता
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रामेति॥ सा। निशासु चरतीति निशाचरी राक्षसी, अभिसारिका च। दुःसहेन सोढुमशक्येन। राम एव मन्मथः। अन्यत्र, -अभिरामो मन्मथः। तस्य शरेण हृदय उरसि मनसि च। `हृदयं मनउरसोः`इति विश्वः। ताडिता विद्धाङ्गा गन्धबद्दुर्गन्धि यद्रुधिरमसृक् तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र, -गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता, `रुधिरे कुङ्कुमासृजोः` इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य, प्राणेश्वरस्य च। वसतिं जगाम ॥
RV 11.21 रथोद्धता
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् । ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नैर्ऋतेति॥ अथानन्तरं ताडकान्तको रामः। अवदानं पराक्रमः। `पराक्रमोऽवदानं स्यात्` इति भागुरिः। तेन तोषितान्मुनेः। नैर्ऋतान्राक्षसान्तीति नैर्ऋतघ्नम्। `अमनुष्यकर्तृके च` (पा.3।2।53)इति टक्। मन्त्रवन्मन्त्रयुक्तमस्त्रम्। सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव। प्रापत् प्राप्तवान् ॥
RV 11.22 रथोद्धता
वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वामनेति॥ ततः परं राघवः। ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन्। `उपेयिवाननाश्वाननूचानश्च` (पा.3।2।109) इति निपातः। प्रथमजन्मचिष्टितानि राम-वामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि। उन्मना उत्सुको बभूव ॥
RV 11.23 रथोद्धता
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आससादेति॥ ततो मुनि। शिष्यवर्गेण परिकल्पिता सज्जिताऽर्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम्। बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम्। दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत्तत्। आत्मनस्तपोवनमाससाद। एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥
RV 11.24 रथोद्धता
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रि-दिवसयोरुदितौ शशि-दिवाकरौ रश्मिभिरन्धतमसाद्गढध्वान्तात्। `ध्वान्ते गाढेऽन्धतमसम्` इत्यमरः (अ.को.1|8|3)। `अवसमन्धेभ्यस्तमसः` (पा.5।4।79)इति समासान्तोऽच्प्रत्ययः। लोकमिव। ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः ॥
RV 11.25 रथोद्धता
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् । संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वीक्ष्येति॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवककुसुमस्थूलैः। `रक्तकस्तु बन्धूको बन्धुजीवकः` इत्यमरः (अ.को.2|4|73)। रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य। अपोढकर्मणां त्यक्तव्यापाराणां च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत्। `विकङ्कत`ग्रहणं खदिराद्युपलक्षणम्। स्रुवादीनां खदिरादिप्रकृतिकत्वात्। स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात्। `विकङअकतः स्रुचां वृक्षः` इत्यमरः (अ.को.2|4|73)। यद्वा, -स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-`स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-`खादिरः स्रवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कतीः स्रुचो वा`इति ॥
RV 11.26 रथोद्धता
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् । रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उन्मुख इति॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात् समुद्धरन्। उन्मुख ऊर्ध्वमुखोऽम्बुरे। गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम्। रक्षसां दुर्निमित्तसूचनमेतत्। तदुक्तं शकुनार्णवे-`आसन्नमृत्योर्निकटे चरन्ति गृध्रादयो मूर्ध्नि गृहोर्ध्वभागे`इति। रक्षसां बलमपश्यत् ॥
RV 11.27 रथोद्धता
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् । किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ स रामः। तत्र रक्षसां बले यौ मखद्विषामधिपती तौ सुबाहुमारीजौ शरव्यं लक्ष्यमकरोत्। `वेध्यं लक्ष्यं शरव्यं च`इति हलायुधः। इतरान्नाकरोत्। तथा हि-महोरगविसर्पिविक्रमो गरुडो गरुत्मान् राजिलेषु जलव्यालेषु प्रवर्तते किम्? न प्रवर्तत इत्यर्थः। `अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ` इत्यमरः (अ.को.1|8|5) ॥
RV 11.28 रथोद्धता
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् । तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ताडकासुतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्देवता यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान्। कर्तरि लिट्। तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम्। पाण्डुपत्रमिव। परिणतपर्णमिवेत्यर्थः। अपातयत् पातितवान् ॥
RV 11.29 रथोद्धता
यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया । तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्वहिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): य इति॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार। क्षुरप्रैः शकलीकृतं खण्डीकृतं तं सुबाहुं कृती कुशलो रामः। `कृती च कुशलः समौ` इत्यमरः (अ.को.3|3|113)। आश्रमाद्बहिः। पत्रिणां पक्षिणाम्। `पत्रिणौ शरपक्षिणौ` इत्यमरः (अ.को.3|3|113)। व्यभजत्। विभज्य दत्तवानित्यर्थः ॥
RV 11.30 रथोद्धता
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्यपास्तमखविघ्नयोस्तयो राघवयोः। संयुगे रणे साधुः सांयुगीनस्तम्। `प्रतिजनादिभ्यः खञ्` (पा.4।4।99)इति खञ्प्रत्ययः। `सांयुगीनो रणे साधुः` इत्यमरः (अ.को.2|8|77)। विक्रममभिनन्द्य ऋत्विजो याजकाः। वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन् निषअपादितवन्तः ॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →