Skip to main content
Search
RV
Raghuvaṁśam • Chapter 10

Canto 10

दशमः सर्गः (रामावतारः)

Canto 10 of Raghuvaṁśam.

Total: 86 Verses • Citations: RV 10.1–86 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
RV 10.31 अनुष्टुप्
अनवाप्तमवाप्तयं न ते किंचन विद्यते । लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनवाप्तमिति॥ अनवाप्तमप्राप्तम्। अवाप्तव्यं प्राप्तव्यं ते तव किंचन किंचिदपि न विद्यते। नित्यपरिपूर्णत्वादिति भावः। तर्हि किंनिबन्धने जन्मकर्मणी तत्राह-लोकेति। एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः। परमकारुणिकस्य ते परार्थैव प्रवृत्तिः, न स्वार्थेत्यर्थः ॥
RV 10.32 अनुष्टुप्
महिमानं यतुत्कीर्त्य तव संह्रियते वचः । श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): महिमानमिति॥ तव महिमानमुत्कीर्त्य वचः सं ह्रियत इति यत्। तद्वचःसंहरणं श्रमेण वाग्यापारश्रान्त्या। अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा। गुणानामियत्तयैतावन्मात्रतया न। तेषामानन्त्यादिति भावः ॥
RV 10.33 अनुष्टुप्
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम्। प्रसादयामासुः प्रसन्नं चक्रुः। हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः। `युक्ते क्ष्मादावृते भूतम्` इत्यमरः (अ.को.3|3|85)। न स्तुतिर्न प्रशंसामात्रम्। महान्तो हि यथाकथंचिन्न सुलभा इति भावः। परमे स्थाने तिष्ठतीति परमेष्ठी। `परमे कित्`(उणा.450) इत्युणादिसूत्रेण तिष्ठतेरिनिः। `तत्पुरुषे कृति बहुलम्` (पा.6।2।2) इति सप्तम्या अलुक्। `स्थास्थिन्स्थृणाम्` इति वक्तव्यात्षत्वम् ॥
RV 10.34 अनुष्टुप्
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ सुरा देवाः कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीततिर्यस्य तस्मै। लक्षितप्रसादायेत्यर्थः। अन्यथा अनवसरविज्ञप्तिमुखराणामिव निष्फला स्यादिति भावः। तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात्। नैर्ऋतो राक्षसः। स एवोदधिः। तस्माद्भयमाचख्युः कथितवन्तः ॥
RV 10.35 अनुष्टुप्
अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ वेलायामब्धिकूले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥
RV 10.36 अनुष्टुप्
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुराणस्येति॥ पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरः-कण्ठादिषु समीरिता सम्यगुञ्चारिता। अत एव कृतः संपादितः संस्कारः साधुत्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था वभूवैव। `एव`- कारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥
RV 10.37 अनुष्टुप्
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता । निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बभाविति॥ विभोर्विष्णोर्वदनादुद्गता निःसृता। सदशनज्योत्स्ना दन्तकान्तिसहिता। इदं च विशेषणं धावल्यातिशयार्थम्। अत एव सा भारती। चरणादङ्घ्रेर्निर्याता चासौ शेषा च निर्यातशेषा। निःसृतावशिष्टेत्यर्थः। `स्रियाः पुंवत्-` (पा.6।3।34)इत्यनुवर्त्य `पुंवत्कर्मधारय-` (पा.6।3।42)इति पुंवद्भावः। `निर्यात`शब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः। निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घटा एव। ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव। बभौ। इत्युत्प्रेक्षा ॥
RV 10.38 अनुष्टुप्
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ । अङ्निनां तमसेवोभौ गुणौ प्रथममध्यमौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जान इति॥ हे देवाः! वो युष्माकमनुभाव-पराक्रमौ महिम-पुरुषकारौ रक्षसा रावणेन। अङ्गिनां शरीरिणां प्रथम-मध्यमावुभौ गुणौ सत्त्व-रजसी तमसेव तमोगुणेनेव। आक्रान्तौ जाने। वाक्यार्थः कर्म ॥
RV 10.39 अनुष्टुप्
विदितं तप्यमानं च तेन मे भुवनत्रयम् । अकामोपनतेनेव साधोर्हृदयमेनसा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विदितमिति॥ किंच, अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव। तेन रक्षसा तप्यमानं संतप्यमानम्। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितम्। मया ज्ञायत इत्यर्थः। `मतिबुद्धि-` (पा.3।2।188) इत्यादिना वर्तमाने क्तः। `क्तस्य च वर्तमाने` (पा.2।3।67)इति षष्टी॥
RV 10.40 अनुष्टुप्
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा । स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कार्येष्विति॥ किंच, एककार्यत्वादावयोरेककार्यत्वाद्धेतोः। कार्येषु कर्तव्येषु विषयेषु वज्रिणेन्द्रेण। अभ्यर्थ्यः`इदं कुरु` इति प्रार्थनीयो नास्मि। तथा हि-वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति। न तु वह्निप्रार्थनया। इत्येवकारार्थः। प्रेक्षावतां हि स्वार्थे स्वत एव प्रवृत्तिः, न तु परप्रार्थनया। स्वार्थश्चायं ममापीत्यर्थः॥
RV 10.41 अनुष्टुप्
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्वेति॥ स्वासिधारया स्वखङ्गधारया परिहृतः। अच्छिन्न इत्यर्थः। दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥
RV 10.42 अनुष्टुप्
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्रष्टुरिति॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः। मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम्। अतिवृद्धिरित्यर्थः। नपुंसके भावेक्तः। भोगिनः सर्पस्यात्यारूढं चन्दनेनेव सोढम्। चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥
RV 10.43 अनुष्टुप्
धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धातारमिति॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणाम्। मर्त्येषु विषय आस्थापराङ्मुखः आदरविमुखः सन्। मर्त्याननादृत्येत्यर्थः। दैवादष्टविधात् सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥
RV 10.44 अनुष्टुप्
सोऽहं दाशरथिर्भूत्वा रणभूमेर्वलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोञ्चयम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति॥ सोऽहम्। दशरथस्यापत्यं पुमान् दाशरथिः। `अत इञ्` (पा.8।1।95) इतीञ्प्रत्ययः। रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुञ्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि। पुष्पविशदा हि पूजेति भावः ॥
RV 10.45 अनुष्टुप्
अचिराद्यज्वभिर्भागं कल्पितं विधइवत्पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अचिरादिति॥ हे देवाः! यज्वभिर्याज्ञिकैर्विधिवत् कल्पितमुपहृतं भागं हवि र्भागं मायाविभिर्मायावद्भिः। `अस्मायामेधास्रजो विनिः` (पा.5।2।121)इति विनिप्रत्ययः। निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाऽचिरात् पुनरादास्यध्वे ग्रहीष्यध्वे ॥
RV 10.46 अनुष्टुप्
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वैमानिका इति॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः। पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु । `संक्षोभो भयचकितम्` इति शब्दार्णवः ॥
RV 10.47 अनुष्टुप्
मोक्ष्यध्वे स्वर्गब्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मोक्ष्यध्व इति॥ हे देवाः! यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान् स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान् मोक्ष्यध्वे। पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः-`स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यति`-इति भारतीया कथानुसंधेया ॥
RV 10.48 अनुष्टुप्
रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृषअणमेघस्तिरोदधे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रावणेति॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च। विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः। `विश्रवः`शब्दाच्छिवादित्वादणि `विश्रवसो विश्रवणरवणौ`इत्यन्तर्गणसूत्रेण `विश्रवः`शब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम्। स एवावग्रहो वर्षप्रतिबन्धः, तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत्। इत्येवंरूपेण वागमृतेन वाक्सलिलेन। `अमृतं यज्ञशेषे स्यात्पीयूषे स्यात्पीयूषे सलिले।़मृतम्`इति विश्वः। अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥
RV 10.49 अनुष्टुप्
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरुहूतेति॥ पुरुहूतप्भृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः। द्रुमाः पुष्पैः स्वांशैर्वायुमिव। अनुययुः। सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥
RV 10.50 अनुष्टुप्
अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः । पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ स्य विशांपत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात् पुरुषः कश्चिद्दिव्यः पुमान्। ऋत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव। तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥
RV 10.51 अनुष्टुप्
हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् । अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हेमपात्रेति॥ आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम्। चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम्। हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन्। `अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः` इति याज्ञिकाः ॥
RV 10.52 अनुष्टुप्
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्राजापत्येति॥ नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं, न तु वसिष्ठेन। `प्राजापत्यं नरं विद्धिमामिहाभ्यागतं नृप!` (बाल.16।16) इति रामायणात्। तदन्नं पायसान्नम्। उदन्वतोदधिनाऽऽविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव। `वासवो वृत्रहा वृषा` इत्यमरः (अ.को.1|1|53)। प्रत्यग्रहीत् स्वीचकार ॥
RV 10.53 अनुष्टुप्
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ तस्य राज्ञो दशरथस्यान्यैर्दुर्लभा असाधारणा गुणा अनेन कथइता व्याख्याताः। यद्यस्मात्त्रयो लोकास्त्रैलक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थेष्यञ्। तस्य प्रभवः कारणं विष्णुरपि तस्मिन् राज्ञि प्रसूतिमुत्पत्तिं चक्रमे कामितवान्। त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥
RV 10.54 अनुष्टुप्
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स नृपः चरुसंज्ञाऽस्य संजाता चरुसंज्ञितम्। वैष्णवं तेजः पत्न्योः कौसल्या-कैकेय्योः। द्योश्च पृथिवी च द्यावा-पृथिव्यौ। `दिवसश्च पृथिव्याम्`इति चकारात् `दिव्`शब्दस्य द्यावादेशः। तयोर्द्यावापृथिव्योः। अह्नः पतिरहर्पतिः। `अहरादीनां पत्यादिषु वा रेफः`(वा.4815)इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः। प्रत्यग्रमातपं बालातपमिवप। विभेजे। विभज्य ददावित्यर्थः ॥
RV 10.55 अनुष्टुप्
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अर्चितेति॥ तस्य राज्ञः। कौ पृथिव्यां सलति गच्छतीति कोसलः। `सलगतौ`पचाद्यच्। कुशब्दस्य पृषोदरादित्वाद्गुणः। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। `वृद्धेत्कोसलाजादाञ्ञ्यङ्` (पा.4।1।171) इति ञ्यङ्, `यङश्चाप्` (पा.4।1।74)इति चाप्। अत एव सूत्रे निर्देशात् `कोसल`शब्दो दन्त्यसकारमध्यमः। अर्चिता ज्येष्टा मान्या। केकयवंशजा कैकेयी। प्रियेष्टा। अतो हेतोः, ईश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्या-कैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म। एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥
RV 10.56 अनुष्टुप्
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ते इति॥ बहुज्ञस्य सर्वज्ञस्य। उचितज्ञस्येत्यर्थः। पत्युर्महीक्षितः क्षितीश्वरस्य। विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह-चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-कैकेय्यौ। चरोर्यावर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धार्धभागाभ्याम्। `पुंस्यर्धोऽर्धं समेंऽशके` इत्यमरः (अ.को.1|3|18)। तां सुमित्रामयोजयतां युक्तां चक्रतुः। अयं च विभागो न रामायणसंवादी; तत्र चरोरर्धं कौसल्याया अविशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात्। किंतु पुराणान्तरसंवादो द्रष्टव्यः। उक्तं च नारसिंहे-`ते पिण्‍डप्राशने काले सुमित्रायै महीपतेः। पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः॥` इति। एवमन्यत्रापि विरेधे पुराणान्तरात्समाधातव्यम् ॥
RV 10.57 अनुष्टुप्
सा हि प्रणयवत्यासीत्सपतन्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सुमित्रा। उभयोरपि। समान एकः पतिर्ययोस्तयोः सपत्नयोः। `नित्यं सपत्न्यादिषु` (पा.4।1।35) इति ङीप्। नकारादेशश्च। भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत्। `सपत्न्योः` इत्यत्र समासान्तर्गतस्य पत्युरुपमानं `वारणस्य` इति ॥
RV 10.58 अनुष्टुप्
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः । सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताभिरिति॥ ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय। देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः। सूर्यस्येमाः सौर्यः, ताभिः सौरीभिः। `सूर्यतिष्य-`(6।4।149)इत्युपधायकारस्य लोपः। अमृता इत्याख्या यासां ताभिः। जलवहनसाम्यान्नाडीभिरिव। नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिः। अपां विकारोऽम्मयो जलमयो गर्भ इव। दध्रे धृतः। जातावेकवचनम्। गर्भा दधिर इत्यर्थः। अत्र यादवः-`तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने। शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने॥ आनन्दाश्च हे मेध्याश्च नूतनाः पूतना इति। चतुःशतं वृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः॥` इति॥
RV 10.59 अनुष्टुप्
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सममिति॥ समं युगपदापन्ना गृहीताः सत्त्वाः प्राणिनो याभिस्ता आपन्नसत्त्वा गर्भिण्यः। `आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी` इत्यमरः (अ.को.2|6|22)। अत एव, आपाण्डुरत्विष ईषत्पाण्डुरवर्णास्ताः राजपत्न्यः। अन्तर्गता गुप्ताः फलारम्भाः फलप्रादुर्भावा यासां ताः सस्यानां संपद इव। रेजुर्बभुः ॥
RV 10.60 अनुष्टुप्
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुतमिति॥ सर्वास्ताः स्वप्नेषु। जलजः शङ्खः। जलजासिगदाशार्ङ्गतचक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ॥
← Previous (Ch. 9) Full Table of Contents Next (Ch. 11) →