Skip to main content
Search
Ch. 10 RV 10.33
Full Chapter
RV • Chapter 10: Canto 10

RV 10.33

Canonical Ref: RV 10.33
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम्। प्रसादयामासुः प्रसन्नं चक्रुः। हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः। `युक्ते क्ष्मादावृते भूतम्` इत्यमरः (अ.को.3|3|85)। न स्तुतिर्न प्रशंसामात्रम्। महान्तो हि यथाकथंचिन्न सुलभा इति भावः। परमे स्थाने तिष्ठतीति परमेष्ठी। `परमे कित्`(उणा.450) इत्युणादिसूत्रेण तिष्ठतेरिनिः। `तत्पुरुषे कृति बहुलम्` (पा.6।2।2) इति सप्तम्या अलुक्। `स्थास्थिन्स्थृणाम्` इति वक्तव्यात्षत्वम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 10.33. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 10.32) All Verses in Chapter 10 Next Verse (RV 10.34) →