अनवाप्तमवाप्तयं न ते किंचन विद्यते । लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥
महिमानं यतुत्कीर्त्य तव संह्रियते वचः । श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधेः ॥
अथ वेलासमासन्नशैलरन्ध्रानुनादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता । निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ । अङ्निनां तमसेवोभौ गुणौ प्रथममध्यमौ ॥
विदितं तप्यमानं च तेन मे भुवनत्रयम् । अकामोपनतेनेव साधोर्हृदयमेनसा ॥
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा । स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥
धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥
सोऽहं दाशरथिर्भूत्वा रणभूमेर्वलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोञ्चयम् ॥
अचिराद्यज्वभिर्भागं कल्पितं विधइवत्पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥
मोक्ष्यध्वे स्वर्गब्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥
रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृषअणमेघस्तिरोदधे ॥
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥
अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः । पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥
हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् । अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥
सा हि प्रणयवत्यासीत्सपतन्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ॥
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः । सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥