Skip to main content
Search
PT
Pañcatantram • Chapter 04

Canto 4

चतुर्थं तन्त्रम् (लब्ध-प्रणाशम्)

Canto 4 of Pañcatantram.

Total: 327 Verses • Citations: PT 4.1–327 • 1 Lexicon Terms • Page 3 of 11 (Verses 30 shown)
तच्छ्रुत्वा सर्प आह—भो !अश्रद्धेयमेतत्यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च—
PT 4.62 अनुष्टुप्
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्-समीपमभ्येति तत्किमेवं प्रजल्पसि ॥
गङ्गदत्त आह—भोः ! सत्यमेतत् । स्वभाव-वैरी त्वमस्माकम् । परं पर-परिभवात्प्राप्तोऽहं ते सकाशम् । उक्तं च—
PT 4.64 अनुष्टुप्
सर्व-नाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥
सर्प आह—कथय कस्मात्ते परिभवः ।
सोऽप्याह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत्कथय स्वाश्रयम् ।
तेनोक्तम्-पाषाण-चय-निबद्धे कूपे ।
सर्प आह—अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान्व्यापादयामि । तद्गम्यताम् । उक्तं च—
PT 4.70 अनुष्टुप्
यच्छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥
गङ्गदत्त आह—भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं लीलया दायादान्व्यापादयिष्यसि ।
तच्छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत्परिणत-वयाः । कदाचित्कथञ्चिन्मूषकमेकं प्राप्नोमि । तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण दर्शितः । तद्गत्वा तान्मण्डूकान्भक्षयामि इति । अथवा साध्विदमुच्यते—
PT 4.73 अनुष्टुप्
यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः । स हि सर्व-सुखोपायां वृत्तिमारचयेद्बुधः ॥
एवं विचिन्त्य तमाह-भो गङ्गदत्त ! यद्येवं तद्-अग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आह—भोः प्रियदर्शन !अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति ।
सर्प आह—साम्प्रतं त्वं मे मित्रं जातम् । तन्न भेतव्यम् । तव वचनेन भक्षण्यास्ते दायादाः ।
एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्यार-घट्ट-घटिका-मार्गेण सर्पस्तेनात्मना स्वालयं नीतः ।
गङ्गदत्त आह—भद्र ! कुतः त्वया मित्र-कृत्यम् । तत्साम्प्रतमनेनैव घटिका-यन्त्र-मार्गेण गम्यतामिति ।
सर्प आह—भो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि ? मदीय-बिल-दुर्गमन्येन रुद्धं भविष्यति । तस्मादत्र-स्थस्य मे मण्डूकमेकैकं स्व-वर्गीयं प्रयच्छ । नो चेत्सर्वानपि भक्षयिष्यामि इति ।
तच्छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किमेतन्मया कृतं सर्पमानयता । तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते—
PT 4.80 अनुष्टुप्
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥
तत्प्रयच्छाम्यस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च—
PT 4.82 अनुष्टुप्
सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः । तोषयन्त्यल्प-दानेन बाडवं सागरो यथा ॥
PT 4.84 उपजातिः
यो दुर्बलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर्ददाति ॥
PT 4.86 अनुष्टुप्
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥
PT 4.87 अनुष्टुप्
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरि-रक्षणम् ॥
एवं निश्चिन्त्य नित्यमेकैकमादिशति । सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते—
PT 4.89 अनुष्टुप्
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलित-वित्तस्तु वित्त-शेषं न रक्षति ॥
अथान्य-दिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तार-स्वरेण धिग्धिक्प्रलाप-परः कथञ्चिदपि न विरराम । ततः स्व-पत्न्याभिहितः—
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →