Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 01

Nāṭyotpatti

नाट्योत्पत्तिः

Narrates the divine creation of Nāṭyaveda (the Fifth Veda) by Lord Brahmā uniting Pāṭhya from Ṛgveda, Gāna from Sāmaveda, Abhinaya from Yajurveda, and Rasa from Atharvaveda, the Jarjara staff, and the inaugural celestial performance.

Total: 134 Verses • Citations: NS 1.1–134 • 31 Lexicon Terms • Page 1 of 5 (Verses 30 shown)
NS 1.p1 Prose (Gadya)
श्रीरस्तु
भरतमुनिप्रणीतं नाट्यशास्त्रम्
śrīrastu
bharatamunipraṇītaṃ nāṭyaśāstram
NS 1.p2 Prose (Gadya)
अथ प्रथमोऽध्यायः
atha prathamo'dhyāyaḥ
NS 1.1 अनुष्टुप्
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥
praṇamya śirasā devau pitāmahamaheśvarau । nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam ॥
English Translation
Having bowed with my head to the two gods, Pitamaha (Brahma) and Maheshvara (Shiva), I shall expound the Natyashastra which was proclaimed by Brahma.
व्याख्या / Traditional Commentary & Notes
【Abhinavabhāratī by Ācārya Abhinavagupta】 भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यतया वृत्या प्रतिजानानो विशेषणद्वारेण गुरुपूर्वक्रममर्थाक्षिप्ततया चाभिधेयप्रयोजन-तत्सम्बन्धान्दर्शयति प्रणम्येत्यादिना पितामहोऽत्र न पितुः पिता, महेश्वरश्च न राजादिरिति देवशब्दः । एतच्च नाशङ्कनीयं प्रसिद्धेः । एको विजिगीषुर्नाटयप्रवर्त्तयितेति देवः । भगवाँ-स्त्वानन्दनिर्भरतया क्रीड़ाशीलः सन्ध्यादौ नृत्यतीति नाट्ये तदुपसकारिणि च नृत्ते तदुपज्ञं 'प्रवृत्तिरिति तावेवात्राधिदैवते गुरू चेति नमस्कायौं । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ २स्वकर्त्तव्यमात्रनिष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावान्न नमस्कृतः । ( इत्ये ) तदपि नमस्कारहेतुनिरूपणस्यानुचितत्वादसत् ।। 'तस्मात् प्रणमनं प्रह्वोभावः कायेन वाचा मनसा च । आद्यः शिरसेति दशितः । द्वितीयो देवावित्यनेन । प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् । तेन प्रथमं देवावित्युक्तम् । अभिनेयप्राधान्याच्चाङ्गिकः शिरसेति । वाचिकश्च देवावित्यादिना वाक्याभिनयो दर्दाशतः । लोकसिद्धो ह्ययमभिनयो न च नाट्य-र्धामरूपः । चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयोऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता । "पितामहमहेश्वरा-वितिक्रमः छेकानुप्रासार्थः । सालङ्कारस्य च वाक्यभिनयतां दर्शयितुम् । सालङ्का-रस्य देवतापरितोषहेतुत्वं च दर्शयितुम् । पितामहमहेश्वरावित्यनेन देवयोर्लोक-हितैषित्वमुक्तम् । नाट्यशास्त्रमिति-नाट्यस्य नटवृत्तस्य शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्या-मिति । नैतदित्यन्ये । 'नाट्यवेदः नाट्यशास्त्रम्' इति हि पर्यायौ । तत्र नाट्य-शास्त्रशब्देन चेदिह ग्रन्थः । तग्रन्थस्येदानीं करणम् । न तु प्रवचनम् । तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा । ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्पादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः । उत्तर ग्रन्थस्य चानुपपत्तिः- 'दृश्यं श्रव्यं च यद्भवेत्" (१-११) 'जग्राह पाठ्य-मृग्वेदात्' (१-१७) इत्यादेर्ग्रन्थं प्रत्यसङ्गतत्वात् । तस्मान्नाटय च तच्छा-स्त्रञ्च । व्युत्पत्तिप्रदत्वात् । प्रवक्ष्यामि व्याख्यास्ये । नाटचाख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः । एतदप्यमनोहरम् । शब्दात्मताव्यतिरेकेण प्रवचनायोगात् । नाट्यस्यं चाशब्दात्मकत्वात् । निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः । नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दा-नर्थक्यप्रसङ्गात् । 'य इमं शृणुयात्प्रोक्तं नाट्यवेदम्' इति शास्त्रान्ते यद्वक्ष्यन्ते तस्यासङ्गत्यापत्तेः । शब्दविषयातिरेकेण शृणुयादित्यस्यावाचकत्वात् । तस्मादित्त्थमेतदिति मद्गुरवः । सकलहितकरणप्रवृत्त' उत्साहसम्पदोपे-तस्तदभिवृद्धये तत्प्रत्यूहापसिसारयिषया स्वविज्ञानक्रमोपारूढ़गुरुरूपब्रह्मसर्वाधि-पतिपरमेश्वरविषयां स्मृत्यौत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकर-णीयविषयं च जड़तावहित्त्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदु-चिताङ्गिकवाचिकानुभावप्रकटनपूर्व स्वप्रवृत्तिप्रयोजनमेव निरूपयति । प्रयोजन स्यैव प्रवर्त्तकत्त्वात् । यदाहुः - 'यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनम्' (न्या० सू० १।१।२४ ) इति । तत्र नाट्य नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिविम्बालेल्यसादृ-श्यारोपाध्यवसायोत्प्रेक्षास्वप्नमायेन्द्रजालादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञा-नभ्रान्तिसंशयानवधारणानध्यवसायविज्ञानभिन्नवृत्तान्तास्व। दनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति वक्ष्यामः । तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादि-वैलक्षण्येन सम्यक्तत्स्वरूपावगमोपायं प्रकर्षेणापरब्रह्मशिष्योदीरितानुपयोगिवि-कासावधाने वक्ष्यामि । यद्वक्ष्यति - य इदं शृणुयात्त्रोक्तं नाट्यवेदं स्वयम्भुवा । कुर्यात्प्रयोगं यश्चैनं तथाऽधीयीत वा नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयात् तु सः ॥ इति । (ना० शा० अ० ३६) एतेन 'कामजो दशको' गणः' ( मनु० ७-४७) इति वर्जनीयत्वेन नाट्यस्यानुपादेयतेति यत्केचिदाशशङ्किरे तदयुक्तीकृतम् । याज्ञवल्क्यस्मृतिपुरा-णादौ चास्य प्रशंसाभूयस्त्वश्रवणात् । न चागमादृते धर्मोऽनुमानगम्य इति न्यायात् । एतत्तु वृथैवास्थानभीरुन्प्रति शङ्काशमनार्थमभिधीयते नाम । तथाहि -नटानां' तावदेतत्स्वधर्माम्नायरूपतयाऽनुष्ठेयमेव । न चास्माकं तच्चेष्टितं विचार्यम् । सोमक्रयोपदेशिनो हि वाक्यस्य न तद्विक्रयि ब्राह्मणान्तर्गतकृत्या-कृत्यविचारणोद्योगो युक्तः । न चाप्यस्योपदिश्यते 'गायेन्नृत्येत्' इति । किन्तु प्रथमनाटयावसरक्रमविरिञ्चिवचनप्रवर्त्तकभरतमुनिशासनानुर्वातशिष्यपरम्पराप-रिचयागताद्यतनकालावधिमहानटजनस्वकप्रवृत्तिविशेषोपदेशपरम् । अतएव तद्गतसिद्धसदुपायोपदेशनपरमिदं शास्त्रमिति । नटस्य तावन्नानेन किञ्चिदुपदिश्यते तं प्रत्युपकारादृते । कवेरपि स्वहृद-यायतनसततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्त्थितविचित्रा पूर्वार्थनिर्माणश-क्तिशालिनः प्रजापतेरिव कामजनितजगतः । परं प्रत्याशङ्का यदि परमत्राव-शिष्यते व्युत्पाद्योपकारः । तस्यापि तु नेह 'गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत्' इत्युपदेशः क्रियते । अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात-एव वेदशास्त्रपुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्वलादेव पुमर्थोपायावर्गातं करोतीति वक्ष्यामः । उत्पत्त्यादिप्रश्नास्तु ये भविष्यन्ति ते नाट्याख्यवेदविषयाः । न तु नाट्यवेदशास्त्रविषयाः । यतो "नाट्यवेदः कथं ब्रह्मन्" ( ना० शा० १-४) इत्यत्र नाट्यमेव वेदः इति व्याख्यास्यामः ॥ एतच्च नाट्यशास्त्रं ब्रह्मणोदाहृतं मह्यमुक्तम् । यद्वक्ष्यते- 'आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास' (ना० शा० १-२५ ) इति । अत्र तु नाट्यस्य वेदः शास्त्रमिति समासः । अन्यथाऽध्यापनाऽसम्भवात् । तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् । नाट्यं ब्रह्मणोद्धत्योद्धृत्य वेदाङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृत-मित्युक्तम् । यदि हि नाट्यस्य वेदनं ज्ञानं सत्ता लाभो विचारश्च यत्र, तन्ना-ट्यवेदशब्देन नाट्‌याश्रयरूपं दशरूपकमित्युच्यते यद्वक्ष्यति "इतिहासो मया दृष्टः" इति । (ना० शा० १।१९) अत्र पक्षे ब्रह्मणोदाहृतं प्रर्दाशतोदाहरणं कृतनिदर्शनमित्यर्थः । अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् तस्येदं शास्त्रम् । दशरू-कलक्षणं हीदम् । एवं दशरूपकं कविना कार्यम् । एवं च नटनीयमिति ग्रन्थता-त्पर्यात् । रसादीनां पदार्थानां तत्रैव पर्यवसानात् । तच्च ब्रह्मणोदाहृतं कृतनि-दर्शनम् । अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानुष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः । भट्टनायकस्तु 'ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं तन्नाट्य तद्वक्ष्यामि । यथा हि कल्पनामात्रसारं तत एवानवस्थि-तैकरूपं क्षणेन कल्पनाशतसहस्रसहं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रह-निदानमत्यक्तस्वालम्बनब्रह्मकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतो-ऽप्यभूताद्भुतवृत्त्या' भाति । तथा भासमानमपि च पुमर्थोपायतामेति । तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परम-पुमर्थप्रापकमिति लोकोत्तरपरमपुरुषार्थसूचनेन शान्तरसोपक्षेपोऽयं भविष्यति । 'स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्त्तते' इति । ( ना० शा० ६) । तदनेन पारमार्थिकं प्रयोजनमुक्तम् । इति सहृदयदर्पणे पर्यग्रहीत् । यदाह - 'नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः । प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः ॥ इति ॥ एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् । तत्प्रयोजनं तु र्दाशतमेव । अभिधेयश्च नाट्यवेदः । व्युत्पाद्य-व्युत्पादकभावलक्षणश्च सम्बन्धः । यच्च शास्त्र यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणतरि प्रसिद्धे सिद्धवदेव प्रामाण्यमभिमन्यत इति "तद्वचनोक्ताय सम्बन्धाभिधेयप्रयोजनाय तदैव निवि-शङ्कः प्रवर्त्तते । परस्त्वधिगतसकलशास्त्रार्थो बहु मन्यते न वेति तदिदमन्यत् । प्रथमं तावत्प्रवृत्तमादिवाक्यं प्रयुक्तमेवेति स्वानुभवप्रसिद्धम् । तेनार्थसंशयतर्क-कौतुकजनादिवाक्यप्रवर्त्तकमिति किमनेन ? ॥ १ ॥
NS 1.2 अनुष्टुप्
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् ।अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam ।anadhyāye kadācittu bharataṃ nāṭyakovidam ॥
व्याख्या / Traditional Commentary & Notes
【Abhinavabhāratī by Ācārya Abhinavagupta】 अथ मुनिरात्मानमेव परत्वेन कल्पयन्ब्रह्मणा यदुदाहृतमित्येतदेव पुरा-कल्पप्रदर्शनेन निश्चाययति- 'समाप्तजप्यमित्यादिना श्लोकद्वयेन । (सुतानां) अनुरागित्वं नाट्यवेदयोग्यता नाट्यस्यादुष्टता विनोदहेतुता सुज्ञानत्वं प्रश्नाव-सरलाभयोगः प्रसिद्धत्वं चाचार्ययोग्यता शिष्टप्रमाणिकत्वं नियमपूर्वकशास्त्र-ग्रहणं प्रसिद्धादरणानुमेयोपादेयत्वप्रकटनमनि' दम्प्राथम्यप्रवृत्तता शिष्याणा-मूहापोहपाटत्वं ग्रहणयोग्यता चेति क्रमेण पदानां तात्पर्यमपुनरुक्तम् ।। २-३ ॥
NS 1.3 अनुष्टुप्
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥
munayaḥ paryupāsyainamātreyapramukhāḥ purā । papracchuste mahātmāno niyatendriyabuddhayaḥ ॥
NS 1.4 अनुष्टुप्
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥
yo'yaṃ bhagavatā samyaggrathito vedasammitaḥ । nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte ॥
NS 1.5 अनुष्टुप्
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥
katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ । sarvametadyathātattvaṃ bhagavanvaktumarhasi ॥
NS 1.6 अनुष्टुप्
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ । pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati ॥
NS 1.7 अनुष्टुप्
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥
bhavadbhiḥ śucibhirbhūtvā tathā'vahitamānasaiḥ । śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ ॥
NS 1.8 अनुष्टुप्
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे । त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥
pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve'ntare । tretāyuge'tha samprāpte manorvaivasvatasya tu ॥
NS 1.9 अनुष्टुप्
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते ।ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते ॥
grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate ।īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite ॥
NS 1.10 अनुष्टुप्
देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥
devadānavagandharvayakṣarakṣomahoragaiḥ । jambudvīpe samākrānte lokapālapratiṣṭhite ॥
NS 1.11 अनुष्टुप्
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥
mahendrapramukhairdevairuktaḥ kila pitāmahaḥ । krīḍanīyakamicchāmo dṛṣyaṃ śravyaṃ ca yadbhavet ॥
NS 1.12 अनुष्टुप्
न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥
na vedavyavahāro'yaṃ saṃśrāvyaḥ śūdrajātiṣu । tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam ॥
NS 1.13a अनुष्टुप्
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥
evamastviti tānuktvā devarājaṃ visṛjya ca । sasmāra caturo vedānyogamāsthāya tattvavit ॥
NS 1.13b अनुष्टुप्
नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥
neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu । vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam ॥
NS 1.14 अनुष्टुप्
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥
dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham । bhaviṣyataśca lokasya sarvakarmānudarśakam ॥
NS 1.15 अनुष्टुप्
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥
sarvaśātrārthasampannaṃ sarvaśilpapravartakam । nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham ॥
NS 1.16 अनुष्टुप्
एवं सङ्कल्प्य भगवान्सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥
evaṃ saṅkalpya bhagavānsarvavedānanusmaran । nāṭyavedaṃ tataścakre caturvedāṅgasambhavam ॥
NS 1.17 अनुष्टुप्
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान्रसानाथर्वणादपि ॥
jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca । yajurvedādabhinayānrasānātharvaṇādapi ॥
NS 1.18 अनुष्टुप्
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना ।एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥
vedopavedaiḥ sambaddho nāṭyavedo mahātmanā ।evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā ॥
NS 1.19 अनुष्टुप्
उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् ।इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥
utpādya nāṭyavedaṃ tu brahmovāca sureśvaram ।itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām ॥
NS 1.20 अनुष्टुप्
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥
kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ । teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā ॥
NS 1.21 अनुष्टुप्
तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥
tacchṛtvā vacanaṃ śakro brahmaṇā yadudāhṛtam । prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham ॥
NS 1.22 अनुष्टुप्
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम ।अशक्ता भगवन्देवा अयोग्या नाट्यकर्मणि ॥
grahaṇe dhāraṇe jñāne prayoge cāsya sattama ।aśaktā bhagavandevā ayogyā nāṭyakarmaṇi ॥
NS 1.23 अनुष्टुप्
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः ।एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥
ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ ।ete'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā ॥
NS 1.24 अनुष्टुप्
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥
śrutvā tu śakravacanaṃ māmāhāmbujasambhavaḥ । tvaṃ putraśatasaṃyuktaḥ prayoktā'sya bhavānagha ॥
NS 1.25 अनुष्टुप्
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥
ājñāpito viditvā'haṃ nāṭyavedaṃ pitāmahāt । putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ ॥
NS 1.26 अनुष्टुप्
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥
śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā । jaṭilambaṣṭakau caiva taṇḍumagniśikhaṃ tathā ॥
NS 1.27 अनुष्टुप्
सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥
saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā । kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā ॥
Full Table of Contents Next (Ch. 2) →