Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 01

Nāṭyotpatti

नाट्योत्पत्तिः

Narrates the divine creation of Nāṭyaveda (the Fifth Veda) by Lord Brahmā uniting Pāṭhya from Ṛgveda, Gāna from Sāmaveda, Abhinaya from Yajurveda, and Rasa from Atharvaveda, the Jarjara staff, and the inaugural celestial performance.

Total: 134 Verses • Citations: NS 1.1–134 • 31 Lexicon Terms • Page 4 of 5 (Verses 30 shown)
NS 1.88 अनुष्टुप्
द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥
dvāraśālāniyuktau tu krutāntaḥ kāla eva ca । sthāpitau dvārapatreṣu nāgamukhyau mahābalau ॥
NS 1.89 अनुष्टुप्
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥
dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam । dvārapālau sthitau caubhau niyatirmṛtyureva ca ॥
NS 1.90 अनुष्टुप्
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥
pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam । sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī ॥
NS 1.91 अनुष्टुप्
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥
stambheṣu mattavāraṇyāḥ sthāpitā paripālane । bhūtayakṣapiśāśca guhyakāśca mahābalāḥ ॥
NS 1.92 अनुष्टुप्
जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥
jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam । tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ ॥
NS 1.93 अनुष्टुप्
शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥
śiraḥparvasthito brahmā dvitīye śaṅkarastathā । tṛtīye ca sthito viṣṇuścaturthe skanda eva ca ॥
NS 1.94 अनुष्टुप्
पञ्चमे च महानागाः शेषवासुकितक्षकाः ।एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥
pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ ।evaṃ vighnavināśāya sthāpitā jarjare surāḥ ॥
NS 1.95 अनुष्टुप्
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ।इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ ।iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam ॥
NS 1.96 अनुष्टुप्
पातालवासिनो ये च यक्षगुह्यकपन्नगाः ।अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥
pātālavāsino ye ca yakṣaguhyakapannagāḥ ।adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ ॥
NS 1.97 अनुष्टुप्
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथौङ्कारः शेशास्तु प्रकृतिर्हरः ॥
nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī । vidūṣakamathauṅkāraḥ śeśāstu prakṛtirharaḥ ॥
NS 1.98 अनुष्टुप्
यान्येतानि नियुक्तानि दैवतानीह रक्षणे ।एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥
yānyetāni niyuktāni daivatānīha rakṣaṇe ।etānyevādhidaivāni bhaviṣyantītyuvāca saḥ ॥
NS 1.99 अनुष्टुप्
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥
etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ । sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā ॥
NS 1.100 अनुष्टुप्
पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥
pūrvaṃ sāmaṃ prayoktavyaṃ dvitīyaṃ dānameva ca । tayorupari bhedastu tato daṇḍaḥ prayujyate ॥
NS 1.101 अनुष्टुप्
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥
devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha । kasmādbhavanto nāṭyasya vināśāya samutthitāḥ ॥
NS 1.102 अनुष्टुप्
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥
brahmaṇo vacanaṃ śrutvā virūpākṣo'bravīdvacaḥ । daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ ॥
NS 1.103 अनुष्टुप्
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥
yo'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā । pratyādeśo'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ ॥
NS 1.104 अनुष्टुप्
तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥
tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha । yathā devastathā daityāstvattaḥ sarve vinirgatāḥ ॥
NS 1.105 अनुष्टुप्
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् ।अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥
vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt ।alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ ॥
NS 1.106 अनुष्टुप्
भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥
bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ । karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ ॥
NS 1.107 अनुष्टुप्
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥
naikāntato'tra bhavatāṃ devānāṃ cānubhāvanam । trailokyāsyāsya sarvasya nāṭyaṃ bhāvānukīrtanam ॥
NS 1.108 अनुष्टुप्
क्वचिद्धर्मः क्वचित्क्रीडा क्वचिदर्थः क्वचिच्छमः । क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥
kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ । kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ ॥
NS 1.109 अनुष्टुप्
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥
dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām । nigraho durvinītānāṃ vinītānāṃ damakriyā ॥
NS 1.110 अनुष्टुप्
क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् ।अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥
klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām ।abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi ॥
NS 1.111 अनुष्टुप्
ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च ।अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥
īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca ।arthopajīvināmartho dhṛtirudvegacetasām ॥
NS 1.112 अनुष्टुप्
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥
nānābhāvopasampannaṃ nānāvasthāntarātmakam । lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam ॥
NS 1.113a अनुष्टुप्
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥
uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam । hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt ॥
NS 1.113b अनुष्टुप्
एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥
etadraseṣu bhāveṣu sarvakarmakriyāsvatha । sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati ॥
NS 1.114 अनुष्टुप्
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥
duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām । viśrāntijananaṃ kāle nāṭyametadbhaviṣyati ॥
NS 1.115 अनुष्टुप्
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥
dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam । lokopadeśajananaṃ nāṭyametadbhaviṣyati ॥
NS 1.116 अनुष्टुप्
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन्यन्न दृश्यते ॥
na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā । nāsau yogo na tatkarma nāṭye'sminyanna dṛśyate ॥
Full Table of Contents Next (Ch. 2) →