जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥
jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā । kaidāriṃ śālikarṇaṃ ca dīrghagātraṃ ca śālikam ॥
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥
kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā । bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam ॥
तैतिलं भार्गवं चैव शुचिं बहुलमेव च ।अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥
taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca ।abudhaṃ budhasenaṃ ca pāṇḍukarṇaṃ sukeralam ॥
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥
ṛjukaṃ maṇḍakaṃ caiva śambaraṃ vañjulaṃ tathā । māgadhaṃ saralaṃ caiva kartāraṃ cogrameva ca ॥
तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥
tuṣāraṃ pārṣadaṃ caiva gautamaṃ bādarāyaṇam । viśālaṃ śabalaṃ caiva sunāmaṃ meṣameva ca ॥
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥
kāliyaṃ bhramaraṃ caiva tathā pīṭhamukhaṃ munim । nakhakuṭṭāśmakuṭṭau ca ṣaṭpadaṃ sottamaṃ tathā ॥
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा ।अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥
pādukopānahau caiva śrutiṃ cāṣasvaraṃ tathā ।agnikuṇḍājyakuṇḍau ca vitaṇḍya tāṇḍyameva ca ॥
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥
kartarākṣaṃ hiraṇyākṣaṃ kuśalaṃ dussahaṃ tathā । lājaṃ bhayānakaṃ caiva bībhatsaṃ savicakṣaṇam ॥
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥
puṇḍrākṣaṃ puṇḍranāsaṃ cāpyasitaṃ sitameva ca । vidyujjihvaṃ mahājihvaṃ śālaṅkāyanameva ca ॥
श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥
śyāmāyanaṃ māṭharaṃ ca lohitāṅgaṃ tathaiva ca । saṃvartakaṃ pañcaśikhaṃ triśikhaṃ śikhameva ca ॥
शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥
śaṅkhavarṇamukhaṃ śaṇḍaṃ śaṅkukarṇamathāpi ca । śakranemiṃ gabhastiṃ cāpyaṃśumāliṃ śaṭhaṃ tathā ॥
विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥
vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca । pitāmahājñayā'smābhirlokasya ca guṇepsayā ॥
प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन्स योजितः ॥
prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ । yo yasminkarmaṇi yathā yogyastasminsa yojitaḥ ॥
भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥
bhāratīṃ sātvatīṃ caiva vṛīttimārabhaṭīṃ tathā । samāśritaḥ prayogastu prayukto vai mayā dvijāḥ ॥
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया ।अथाह मां सुरगुरुः कैशिकिमपि योजय ॥
parigṛhya praṇamyātha brahmā vijñāpito mayā ।athāha māṃ suraguruḥ kaiśikimapi yojaya ॥
यच्च तस्याः क्षमं द्रव्यं तद्ब्रूहि द्विजसत्तम ।एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥
yacca tasyāḥ kṣamaṃ dravyaṃ tadbrūhi dvijasattama ।evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ ॥
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥
dīyatāṃ bhagavandravyaṃ kaiśikyāḥ samprayojakam । nṛttāṅgahārasampannā rasabhāvakriyātmikā ॥
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥
dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ । kaiśikī ṣlakṣṇanaipathyā śṛṅgārarasasambhavā ॥
अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥
aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte । tato'sṛjanmahātejā manasā'psaraso vibhuḥ ॥
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥
nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ । mañjukeśīṃ sukeśīṃ ca miśrakeśīṃ sulocanām ॥
सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥
saudāminīṃ devadattāṃ devasenāṃ manoramām । sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā ॥
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥
sumālāṃ santatiṃ caiva sunandāṃ sumukhīṃ tathā । māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim ॥
नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥
nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau । svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā ॥
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः ।एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥
nāradādyāśca gandharvā gānayoge niyojitāḥ ।evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha ॥
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् ।उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥
svātināradasaṃyukto vedavedāṅgakāraṇam ।upasthito'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ ॥
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् ।एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥
nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham ।etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ ॥
महानयं प्रयोगस्य समयः प्रत्युपस्थितः ।अयं ध्वजमहः श्रीमान्महेन्द्रस्य प्रवर्तते ॥
mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ ।ayaṃ dhvajamahaḥ śrīmānmahendrasya pravartate ॥
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥
atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām । tatastasmindhvajamahe nihatāsuradānave ॥
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥
prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave । pūrvaṃ kṛtā mayā nāndī hyāśīrvacasaṃyutā ॥
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥
aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā । tadante'nukṛtirbaddhā yathā daityāḥ surairjitāḥ ॥