Skip to main content
Search
Full Chapter
NS • Chapter 1: Nāṭyotpatti

NS 1.1

Canonical Ref: NS 1.1
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥
Roman Transliteration (IAST)
praṇamya śirasā devau pitāmahamaheśvarau । nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam ॥
English Scholarly Translation
Having bowed with my head to the two gods, Pitamaha (Brahma) and Maheshvara (Shiva), I shall expound the Natyashastra which was proclaimed by Brahma.
व्याख्या / Traditional Commentary & Notes Abhinavabhāratī by Ācārya Abhinavagupta
भरतमुनिरुचितदेवतानमस्कारपूर्वकमभिधेयगुणीभावेन प्रयोजनं मुख्यतया वृत्या प्रतिजानानो विशेषणद्वारेण गुरुपूर्वक्रममर्थाक्षिप्ततया चाभिधेयप्रयोजन-तत्सम्बन्धान्दर्शयति प्रणम्येत्यादिना पितामहोऽत्र न पितुः पिता, महेश्वरश्च न राजादिरिति देवशब्दः । एतच्च नाशङ्कनीयं प्रसिद्धेः । एको विजिगीषुर्नाटयप्रवर्त्तयितेति देवः । भगवाँ-स्त्वानन्दनिर्भरतया क्रीड़ाशीलः सन्ध्यादौ नृत्यतीति नाट्ये तदुपसकारिणि च नृत्ते तदुपज्ञं 'प्रवृत्तिरिति तावेवात्राधिदैवते गुरू चेति नमस्कायौं । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता तथापि पितामहादिवदसौ २स्वकर्त्तव्यमात्रनिष्ठस्तथाचरन्नात्र नाट्ये लोकवदुपजीवित इति गुरुत्वाभावान्न नमस्कृतः । ( इत्ये ) तदपि नमस्कारहेतुनिरूपणस्यानुचितत्वादसत् ।। 'तस्मात् प्रणमनं प्रह्वोभावः कायेन वाचा मनसा च । आद्यः शिरसेति दशितः । द्वितीयो देवावित्यनेन । प्रणम्यस्य निरुपपदनामग्रहणानौचित्यात् । तेन प्रथमं देवावित्युक्तम् । अभिनेयप्राधान्याच्चाङ्गिकः शिरसेति । वाचिकश्च देवावित्यादिना वाक्याभिनयो दर्दाशतः । लोकसिद्धो ह्ययमभिनयो न च नाट्य-र्धामरूपः । चतुर इव भुजादावूर्ध्वादिभिन्न इत्यभिनेयोऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वाक्कायव्यापारगम्येति नासौ पृथगुक्ता । "पितामहमहेश्वरा-वितिक्रमः छेकानुप्रासार्थः । सालङ्कारस्य च वाक्यभिनयतां दर्शयितुम् । सालङ्का-रस्य देवतापरितोषहेतुत्वं च दर्शयितुम् । पितामहमहेश्वरावित्यनेन देवयोर्लोक-हितैषित्वमुक्तम् । नाट्यशास्त्रमिति-नाट्यस्य नटवृत्तस्य शास्त्रं शासनोपायं ग्रन्थं प्रवक्ष्या-मिति । नैतदित्यन्ये । 'नाट्यवेदः नाट्यशास्त्रम्' इति हि पर्यायौ । तत्र नाट्य-शास्त्रशब्देन चेदिह ग्रन्थः । तग्रन्थस्येदानीं करणम् । न तु प्रवचनम् । तद्धि व्याख्यानरूपं करणाद्भिन्नं कठेन प्रोक्तमिति यथा । ग्रन्थस्य च नाट्यवेदत्वे उत्पत्त्पादिपञ्चकस्य तद्गतस्यान्यग्रन्थसाधारण्यात् प्रश्नासङ्गतिः । उत्तर ग्रन्थस्य चानुपपत्तिः- 'दृश्यं श्रव्यं च यद्भवेत्" (१-११) 'जग्राह पाठ्य-मृग्वेदात्' (१-१७) इत्यादेर्ग्रन्थं प्रत्यसङ्गतत्वात् । तस्मान्नाटय च तच्छा-स्त्रञ्च । व्युत्पत्तिप्रदत्वात् । प्रवक्ष्यामि व्याख्यास्ये । नाटचाख्यं वेदं लक्षणतो निरूपयिष्य इत्यर्थः । एतदप्यमनोहरम् । शब्दात्मताव्यतिरेकेण प्रवचनायोगात् । नाट्यस्यं चाशब्दात्मकत्वात् । निरूपणमात्रे च प्रवचने ग्रन्थस्यापि प्रवचनोपपत्तेः । नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दा-नर्थक्यप्रसङ्गात् । 'य इमं शृणुयात्प्रोक्तं नाट्यवेदम्' इति शास्त्रान्ते यद्वक्ष्यन्ते तस्यासङ्गत्यापत्तेः । शब्दविषयातिरेकेण शृणुयादित्यस्यावाचकत्वात् । तस्मादित्त्थमेतदिति मद्गुरवः । सकलहितकरणप्रवृत्त' उत्साहसम्पदोपे-तस्तदभिवृद्धये तत्प्रत्यूहापसिसारयिषया स्वविज्ञानक्रमोपारूढ़गुरुरूपब्रह्मसर्वाधि-पतिपरमेश्वरविषयां स्मृत्यौत्सुक्यधृतिमत्यादिलक्षणां व्यभिचारसरणिं बाह्यकर-णीयविषयं च जड़तावहित्त्थप्रभृतिभावगणं पुरस्सरीकृत्य धर्मवीरानुप्रविष्टस्तदु-चिताङ्गिकवाचिकानुभावप्रकटनपूर्व स्वप्रवृत्तिप्रयोजनमेव निरूपयति । प्रयोजन स्यैव प्रवर्त्तकत्त्वात् । यदाहुः - 'यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनम्' (न्या० सू० १।१।२४ ) इति । तत्र नाट्य नाम लौकिकपदार्थव्यतिरिक्तं तदनुकारप्रतिविम्बालेल्यसादृ-श्यारोपाध्यवसायोत्प्रेक्षास्वप्नमायेन्द्रजालादिविलक्षणं तद्ग्राहकस्य सम्यग्ज्ञा-नभ्रान्तिसंशयानवधारणानध्यवसायविज्ञानभिन्नवृत्तान्तास्व। दनरूपसंवेदनसंवेद्यं वस्तु रसस्वभावमिति वक्ष्यामः । तस्य शास्त्रं शासनं बाह्यभाण्डनाट्यादि-वैलक्षण्येन सम्यक्तत्स्वरूपावगमोपायं प्रकर्षेणापरब्रह्मशिष्योदीरितानुपयोगिवि-कासावधाने वक्ष्यामि । यद्वक्ष्यति - य इदं शृणुयात्त्रोक्तं नाट्यवेदं स्वयम्भुवा । कुर्यात्प्रयोगं यश्चैनं तथाऽधीयीत वा नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयात् तु सः ॥ इति । (ना० शा० अ० ३६) एतेन 'कामजो दशको' गणः' ( मनु० ७-४७) इति वर्जनीयत्वेन नाट्यस्यानुपादेयतेति यत्केचिदाशशङ्किरे तदयुक्तीकृतम् । याज्ञवल्क्यस्मृतिपुरा-णादौ चास्य प्रशंसाभूयस्त्वश्रवणात् । न चागमादृते धर्मोऽनुमानगम्य इति न्यायात् । एतत्तु वृथैवास्थानभीरुन्प्रति शङ्काशमनार्थमभिधीयते नाम । तथाहि -नटानां' तावदेतत्स्वधर्माम्नायरूपतयाऽनुष्ठेयमेव । न चास्माकं तच्चेष्टितं विचार्यम् । सोमक्रयोपदेशिनो हि वाक्यस्य न तद्विक्रयि ब्राह्मणान्तर्गतकृत्या-कृत्यविचारणोद्योगो युक्तः । न चाप्यस्योपदिश्यते 'गायेन्नृत्येत्' इति । किन्तु प्रथमनाटयावसरक्रमविरिञ्चिवचनप्रवर्त्तकभरतमुनिशासनानुर्वातशिष्यपरम्पराप-रिचयागताद्यतनकालावधिमहानटजनस्वकप्रवृत्तिविशेषोपदेशपरम् । अतएव तद्गतसिद्धसदुपायोपदेशनपरमिदं शास्त्रमिति । नटस्य तावन्नानेन किञ्चिदुपदिश्यते तं प्रत्युपकारादृते । कवेरपि स्वहृद-यायतनसततोदितप्रतिभाभिधानपरवाग्देवतानुग्रहोत्त्थितविचित्रा पूर्वार्थनिर्माणश-क्तिशालिनः प्रजापतेरिव कामजनितजगतः । परं प्रत्याशङ्का यदि परमत्राव-शिष्यते व्युत्पाद्योपकारः । तस्यापि तु नेह 'गायेन्नृत्येद्वादयेत्तन्निरतो वा भवेत्' इत्युपदेशः क्रियते । अपि तु स्वरसत एव तावन्मनोज्ञविषयास्वादप्रवृत्तस्यात-एव वेदशास्त्रपुराणादिभीरुहृदयस्य तन्मनोज्ञवस्तुमध्ये तादृगिदं वस्त्वनुप्रवेशितं यद्वलादेव पुमर्थोपायावर्गातं करोतीति वक्ष्यामः । उत्पत्त्यादिप्रश्नास्तु ये भविष्यन्ति ते नाट्याख्यवेदविषयाः । न तु नाट्यवेदशास्त्रविषयाः । यतो "नाट्यवेदः कथं ब्रह्मन्" ( ना० शा० १-४) इत्यत्र नाट्यमेव वेदः इति व्याख्यास्यामः ॥ एतच्च नाट्यशास्त्रं ब्रह्मणोदाहृतं मह्यमुक्तम् । यद्वक्ष्यते- 'आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास' (ना० शा० १-२५ ) इति । अत्र तु नाट्यस्य वेदः शास्त्रमिति समासः । अन्यथाऽध्यापनाऽसम्भवात् । तेन ब्रह्मप्रोक्तमेव मया यथापरिपाटि निरूप्यत इति यावत् । नाट्यं ब्रह्मणोद्धत्योद्धृत्य वेदाङ्गान्याहृतमिति तद्विषयं शास्त्रमप्युदाहृत-मित्युक्तम् । यदि हि नाट्यस्य वेदनं ज्ञानं सत्ता लाभो विचारश्च यत्र, तन्ना-ट्यवेदशब्देन नाट्‌याश्रयरूपं दशरूपकमित्युच्यते यद्वक्ष्यति "इतिहासो मया दृष्टः" इति । (ना० शा० १।१९) अत्र पक्षे ब्रह्मणोदाहृतं प्रर्दाशतोदाहरणं कृतनिदर्शनमित्यर्थः । अन्ये तु नटनीयमनुकरणं दशरूपकमेव नाट्यम् तस्येदं शास्त्रम् । दशरू-कलक्षणं हीदम् । एवं दशरूपकं कविना कार्यम् । एवं च नटनीयमिति ग्रन्थता-त्पर्यात् । रसादीनां पदार्थानां तत्रैव पर्यवसानात् । तच्च ब्रह्मणोदाहृतं कृतनि-दर्शनम् । अन्ये तु ब्रह्मणा वेदाख्येन भगवता शब्दराशिनोदाहृतं निरूपितं त्याज्यानुष्ठेयरूपमायदागच्छत् व्युत्पाद्यतया स्वीकुर्वन्नाट्यशास्त्रं प्रवक्ष्यामीति प्रयोजनमनेनैव स्वीकृतमित्याहुः । भट्टनायकस्तु 'ब्रह्मणा परमात्मना यदुदाहृतमविद्याविरचितनिस्सारभेदग्रहे यदुदाहरणीकृतं तन्नाट्य तद्वक्ष्यामि । यथा हि कल्पनामात्रसारं तत एवानवस्थि-तैकरूपं क्षणेन कल्पनाशतसहस्रसहं स्वप्नादिविलक्षणमपि सुष्ठुतरां हृदयग्रह-निदानमत्यक्तस्वालम्बनब्रह्मकल्पनटोपरचितं रामरावणादिचेष्टितमसत्यं कुतो-ऽप्यभूताद्भुतवृत्त्या' भाति । तथा भासमानमपि च पुमर्थोपायतामेति । तथा तादृगेव विश्वमिदमसत्यनामरूपप्रपञ्चात्मकमथ च श्रवणमननादिवशेन परम-पुमर्थप्रापकमिति लोकोत्तरपरमपुरुषार्थसूचनेन शान्तरसोपक्षेपोऽयं भविष्यति । 'स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्त्तते' इति । ( ना० शा० ६) । तदनेन पारमार्थिकं प्रयोजनमुक्तम् । इति सहृदयदर्पणे पर्यग्रहीत् । यदाह - 'नमस्त्रैलोक्यनिर्माणकवये शम्भवे यतः । प्रतिक्षणं जगन्नाट्यप्रयोगरसिको जनः ॥ इति ॥ एवं नाट्यशास्त्रप्रवचनं प्रयोजनमुक्तम् । तत्प्रयोजनं तु र्दाशतमेव । अभिधेयश्च नाट्यवेदः । व्युत्पाद्य-व्युत्पादकभावलक्षणश्च सम्बन्धः । यच्च शास्त्र यो जिज्ञासते स तावत्तदवसरे तच्छास्त्रप्रणतरि प्रसिद्धे सिद्धवदेव प्रामाण्यमभिमन्यत इति "तद्वचनोक्ताय सम्बन्धाभिधेयप्रयोजनाय तदैव निवि-शङ्कः प्रवर्त्तते । परस्त्वधिगतसकलशास्त्रार्थो बहु मन्यते न वेति तदिदमन्यत् । प्रथमं तावत्प्रवृत्तमादिवाक्यं प्रयुक्तमेवेति स्वानुभवप्रसिद्धम् । तेनार्थसंशयतर्क-कौतुकजनादिवाक्यप्रवर्त्तकमिति किमनेन ? ॥ १ ॥
Canonical CTS URN Reference
Nāṭyaśāstra, NS 1.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (NS 1.p2) All Verses in Chapter 1 Next Verse (NS 1.2) →