स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता । छायापदेशाद्वसुधा निमज्ज्य सुधाम्बुधावुज्झति खेदमत्र ॥
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः । इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः स्यात् ॥
मावापदुन्निद्रसरोजपूजा श्रियं शशी पद्मनिमीलितेजाः । अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयमेति मन्ये ॥
य एष जागर्ति शशः शशाङ्के बुधो विधत्ते क इवात्र चित्रम् । अन्तः किलैतत्पितुरम्बुराशेरासीत्तुरङ्गोऽपि मतङ्गजोऽपि ॥
गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् । शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्ति ॥
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु । बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ॥
दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि । अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं तरन्ति ॥
किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भानस्ति तेजोमयबिन्दुरिन्दुः । अत्रेस्तु नेत्रे घटते यदासीन्मासेन नाशी महतो महीयान् ॥
त्रातुं पतिं नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः । एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा ॥
मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ । पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः स्युः ॥
वाणीभिराभिः परिपत्त्रिमाभिर्नरेन्द्रमानन्दजडं चकार । मुहूर्तमाश्चर्यरसेन भैमी हैमीव वृष्टिः स्तिमितं च तं सा ॥
इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन् । अचुम्बदस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम् ॥
प्रियेण साथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता । स्मितांशुजालं विततार तारा दिवः स्फुरन्तीव कृतावतारा ॥
स्ववर्णना न स्वयमर्हतीति नियुज्य मां त्वन्मुखमिन्दुरूपम् । स्थानेऽत्युदास्ते शशिनः प्रशस्तौ धरातुरासाहमिति स्म साह ॥
तयेरितः प्राणसमः सुमुख्या गिरं परीहासरसोत्किरां सः । भूलोकसारः स्मितवाक्तुषारभानुं भणिष्यन्सुभगां बभाण ॥
तवानने जातचरीं निपीय गीतिं तदाकर्णनलोलुपोऽयम् । हातुं नु जातु स्पृहयत्यवैमि विधुं मृगस्त्वद्वदनभ्रमेण ॥
इन्दोर्भ्रमेणोपगमाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम् । गीत्या मृगं कर्षतु भन्त्स्यता किं पाशीबभूवे श्रवणद्वयेन ॥
आप्यायनाद्वा रुचिभिः सुधांशोः शैत्यात्तमःकाननजन्मनो वा । यावन्निशायामथ घर्मदुःस्थस्तावद्व्रजत्यह्नि न शब्दपान्थः ॥
दूरेऽपि तत्तावकगानपानाल्लब्धावधिः स्वादुरसोपभोगे । अवज्ञयैव क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः ॥
अस्मिन्न विस्मापयतेऽयमस्मांश्चक्षुर्बभूवैष यदादिपुंसः । तदत्रिनेत्रादुदितस्य तन्वि कुलानुरूपं किल रूपमस्य ॥
आभिर्मृगेन्द्रोदरि कौमुदीभिः क्षीरस्य धाराभिरिव क्षणेन । अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या ॥
पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या । अपारि वामोरु तयापि किंचिन्न प्रोञ्छितुं लाञ्छनकालिमाष्य ॥
एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य । प्रविश्य शेषास्तु भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्राः ॥
निरन्तरत्वेन निधाय तन्वि तारासहस्राणि यदि क्रियेत । सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत ॥
यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् । एकार्थलिप्साकृत एष शङ्के शशाङ्कपङ्केरुहयोर्विरोधः ॥
लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते । निपीय देवैर्विघसीकृतायां घृणां विधोरस्य दधे सुधायाम् ॥
एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम् । अश्नाति घोरं विषमब्धिजन्म धत्ते भुजङ्गं च विमुक्तशङ्कः ॥
नास्य द्विजेन्द्रस्य बभूव पश्य दारान्गुरोर्यातवतोऽपि पातः । प्रवृत्तयोऽप्यात्ममयप्रकाशान्नहन्ति न ह्यन्तिमदेहमाप्तान् ॥
स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः । चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव ॥
पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि बिम्बमिन्दोः । चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यच्चुम्बति राजहंसी ॥