उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः । अवाप्तवान्सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः ॥
प्रत्युद्व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् । अध्यास्य तामप्यधिवास्य सोऽयं संध्यामुपश्लोकयति स्म सायम् ॥
विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् । अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः । तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य । यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥
पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र । निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥
महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम् । तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्ग हारम् ॥
भूषास्थिदाम्नस्त्रुटितस्य नाट्यात्पश्योडुकोटीकपटं वहद्भिः । दिग्मण्डलं मण्डयतीह खण्डैः सायंनटस्तारकराट्किरीटः ॥
कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्विपस्य । तस्येव संध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥
संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव । दिग्वाससा पूर्वमवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि ॥
सतीमुमामुद्वहता च पुष्पसिन्दूरिकार्थं वसने सुनेत्रे । दिशौ द्विसंधीमभि रागशोभे दिग्वाससोभे किमलम्भिषाताम् ॥
आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः । अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम् ॥
अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः । विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादित द्यौः ॥
पचेलिमं दाडिममर्कबिम्बमुत्तार्य संध्या त्वगिवोज्झितास्य । तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम् ॥
(ताराततिर्बीजमिवादमादमियं निरष्ठेवि यदस्थियूथम् । तन्निष्कुलाकृत्य रविं त्वगेषा संध्योज्झिता पाकिमदाडिमं वा ॥
इत्थं ह्रिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य । तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे ॥
रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात । ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्रु ॥
मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के । पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः ॥
नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य । दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः ॥
अमूनि मन्येऽमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः । तत्पूरखेलत्सुरभीतिदूरो मग्नान्यधः स्पष्टमितः प्रतीमः ॥
स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः । कस्यापरस्योडुमयैः प्रसूनैर्वादित्रशक्तिर्घटते भटस्य ॥
किं योगिनीयं रजनी रतीशं याजीजिवत्पद्मममूमुहच्च । योगर्द्धिमस्या महतीमलग्नमिदं वदत्यम्बरचुम्बि कम्बु ॥
प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती । निशा ह शून्याध्वनि योगिनीयं मृषा जगद्दृष्टमपि स्फुटाभम् ॥
एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्भ्रूयुगधन्वना यः । मुखे तवेन्दौ लसता स तारा पुष्पालिबाणानुगतो गतोऽयम् ॥
लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डमाभात्यनुकाष्ठमस्य । स्वकान्तिरेणूत्करवान्तिमन्ति घुणव्रणद्वारनिभानि भानि ॥
शचीसपत्न्यां दिशि पश्य भैमी शक्रेभदानद्रवनिर्झरस्य । पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः ॥
रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य । यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान् ॥
पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम् । भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य । दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशेभि ॥
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिवासीत् । पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम् ॥