सौवर्गवर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम् । पूर्णोऽमृतानां निशि तेऽत्र नद्यां मग्नः पुनः स्यात्प्रतिमाच्छलेन ॥
समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः । विवाहलीलामनयोरिवाह मधुच्छलत्यागजलाभिषेकः ॥
विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था । विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाननचन्द्रभाजम् ॥
तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः । अवैमि रात्रेरमताधरोष्ठं मुखं मयूखस्मितचारुचन्द्रम् ॥
अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषानीरा सरसी स्मरस्य । पानात्सुधानामजलेऽप्यमृत्युं चिह्नं बिभर्त्यत्रभवं स मीनम् ॥
तारास्थिभूषा शशिजह्नुजाभृच्चन्द्रांशुपांशुच्छुरितद्युतिर्द्यौः । छायापथच्छद्मफणीन्द्रहारा स्वं मूर्तिमाह स्फुटमष्टमूर्तेः ॥
एकैव तारा मुनिलोचनस्य जाता किलैतज्जनकस्य तस्य । ताताधिका संपदभूदियं तु सप्तान्विता विंशतिरस्य यत्ताः ॥
मृगाक्षि यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम् । यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्त्रभङ्गः खलु मन्मथस्य ॥
दशाननेनापि जगन्ति जित्वा योऽयं पुरापारि न जातु जेतुम् । म्लानिर्विधोर्मानिनि संगतेयं तस्य त्वदेकानननिर्जितस्य ॥
दृष्टो निजां तावदियन्त्यहानि जयन्नयं पूर्वदशां शशाङ्कः । पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं द्रक्ष्यसि भङ्गमस्य ॥
क्षत्त्राणि रामः परिभूय रामात्क्षत्त्राद्यथाभज्यत स द्विजेन्द्रः । तथैव पद्मानभिभूय सर्वांस्त्वद्वक्त्रपद्मात्परिभूतिमेति ॥
अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये हरिणेन पश्य । इत्येष भैमीमददर्शदस्य कदाचिदन्तं स कदाचिदन्तः ॥
सागरान्मुनिविलोचनोदराद्यद्द्वयादजनि तेन किं द्विजः । एवमेव च भवन्नयं द्विजः पर्यवस्यति विधुः किमत्रिजः ॥
ताराविहारभुवि चन्द्रमयीं चकार यन्मण्डलीं हिमभुवं मृगनाभिवासम् । तेनैव तन्वि सुकृतेन मते जिनस्य स्वर्लोकलोकतिलकत्वमवाप धाता ॥
इन्दुं मुखाद्बहुतृणं तव यद्गृणन्ति नैनं मृगस्त्यजति तन्मृगतृष्णयेव । अत्येति मोहमहिमा न हिमांशुबिम्बलक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥
स्वर्भानुना प्रसभपानविभीषिकाभिर्दुःखाकृतैनमवधूय सुधासुधांशुम् । स्वं निह्नुते शितिमचिह्नममुष्य रागैस्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम् ॥
हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः । भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्मात्तदेकाकिनः स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः ॥
यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभूर्वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये तावकम् । कः शीतांशुरसौ तदा मखमृगव्याधोत्तमाङ्गस्थलस्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः ॥
जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्यामश्यामत्वैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य । इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्डद्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के ॥
अंशं षोडषमामनन्ति रजनीभर्तुः कलां वृत्तयत्न्येनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्धिष्णवः । या शेषा पुनरुद्धृता तिथिमृते सा किं हरालंकृतिस्तस्याः स्थानबिलं कलङ्कमिह किं पश्यामि सश्यामिकम् ॥
ज्योत्स्नामादयते चकोरशिशुना द्राघीयसी लोचने लिप्सुर्मूलमिवोपजीवितुमितः संतपर्णात्मीकृतात् । अङ्के रङ्कुमयं करोति च परिस्प्रष्टुं तदेवादृतस्त्वद्वत्त्रं नयनश्रियाप्यनधिकं मुग्धे विधित्सुर्विधुः ॥
लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण तु । निर्माय द्वयमेतदप्सु विधिना पाणी खलु क्षालितौ तल्लेशैरधुनापि नीरनिलयैरम्भोजमारभ्यते ॥
लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण यः । तल्लेखापि शिखामणिः सुषमयाहंकृत्य शंभोरभूदब्जं तस्य पदं यदस्पृशदतः पद्मं च सन्न श्रियाः ॥
सपीतेः संप्रीतेरजनि रजनीशः परिषदा परीतस्ताराणां दिनमणिमणिग्रावमणिकः । प्रिये पश्योत्प्रेक्षाकविभिरभिधानाय सुशकः सुधामभ्युद्धर्तुं धृतशशकनीलाश्मचषकः ॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शङ्के सुन्दरि शर्वरीपरिवृढस्तेनैष दोषाकरः । आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः ॥
शुचिरुचिमुडुगणमगणनममुमतिकलयसि कृशतनु न गगनतटमनु । प्रतिनिशशशितलविगलदमृतभृतरविरथहयचयखुरबिलकुलमिव ॥
उपनतमुडुपुष्पजातमास्ते भवतु जनः परिचारकस्तवायम् । तिलतिलकितपर्पटाभमिन्दुं वितर निवेद्यमुपास्स्व पञ्चबाणम् ॥
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भवश्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः । पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषानादरभरैः ॥