Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 22

Canto 22

द्वाविंशः सर्गः

Canto 22 of Naiṣadhīyacaritam.

Total: 153 Verses • Citations: NC 22.1–153 • 1 Lexicon Terms • Page 6 of 6 (Verses 3 shown)
NC 22.151 हरिणी
दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् । स परमपरः क्षीरोदन्वान्यदीयमुदीयते मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् ॥
NC 22.152 शार्दूलविक्रीडितम्
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया प्राज्ञंमन्यमना हठेन पठिती मास्मिन्खलः खेलतु । श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादयत्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥
NC 22.153 शार्दूलविक्रीडितम्
ताम्बूलद्वयमासनं च लभते यः कान्यकुब्जेश्वराद्यः साक्षात्कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् । यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम् ॥
← Previous (Ch. 21) Full Table of Contents