तत्कालवेद्यैः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य । तां लोकपालैकधुरीण एष तस्यै सपर्यामुचितां दिदेश ॥
दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकौतूहलसिद्धविद्याम् । ततः क्षितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव ॥
दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु । स्वाङ्गेषु रूपोत्थमथाद्भुताब्धिमुद्वेलयन्तीमवलोककानाम् ॥
स्निग्धत्वमायाजललेपलोपसयत्नरत्नांशुमृजांशुकाभाम् । नेपथ्यहीरद्युतिवारिवर्तिस्वच्छायसच्छायनिजालिजालाम् ॥
विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च । रतीशदूतेन मधुव्रतेन कर्णे रहः किंचिदिवोच्यमानाम् ॥
विरोधिवर्णाभरणाश्मभासां मल्लाजिकौतूहलमीक्षमाणाम् । स्मरस्वचापभ्रमचालिते नु भ्रुवौ विलासाद्वलिते वहन्तीम् ॥
सामोदपुष्पाशुगवासिताङ्गीं किशोरशाखाग्रशयालिमालाम् । वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् ॥
पीतावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् । गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान्पुनरुक्तयन्तीम् ॥
स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य । तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् ॥
विभूषाणेभ्योऽवरमंशुकेषु ततोऽवरं सान्द्रमणिप्रभासु । सम्यक्पुनः क्वापि न राजकस्य पातुं दृशा धातृधृतावकाशाम् ॥
प्राक्पुष्पवर्षैर्वियतः पतद्भिर्द्रष्टुं न दत्तामथ न द्विरेफैः । तद्भीतिभुग्नेन ततो मुखेन विधेरहो वाञ्छितविघ्नयत्नः ॥
एतद्वरं स्यामिति राजकेन मनोरथातिथ्यमवापिताय । सखीमुखायोत्सृजतीमपाङ्गात्कर्पूरकस्तूरिकयोः प्रवाहम् ॥
स्मितेच्छुदन्तच्छदकम्पकिंचिद्दिगम्बरीभूतरदांशुवृन्दैः । आनन्दितोर्वीन्द्रमुखारविन्दैर्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥
प्रत्यङ्गभूषाच्छमणिच्छलेन यल्लग्नतन्निश्चललोकनेत्राम् । हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् ॥
तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचोऽभिनेतुम् । विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम् ॥
तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् । स्वयं धृतामप्सरसां प्रसादं ह्रियं हृदो मण्डनमर्पयन्तीम् ॥
तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नभो जयन्तीम् । आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः कस्य न भोजयन्तीम् ॥
अलंकृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् । इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः ॥
आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य । उल्लेसुरङ्गानि मुदा न यस्य विनद्ररोमाङ्कुरदन्तुराणि ॥
अङ्गुष्ठमूर्ध्ना विनिपीडिताया मध्येन भागेन च मध्यमायाः । आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम ॥
अस्मिन्समाजे मनुजेश्वरेण तां खञ्जनाक्षीमंवलोक्य केन । पुनः पुनर्लोलितमौलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ॥
स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः । इदं मुदा विह्वलचित्तभावादवापि खण्डाक्षारजिह्मजिह्वम् ॥
रम्भादिलोभात्कृतकर्मभिर्मा शून्यैव भूर्भूत्सुरभूमिपान्थैः । इत्येतयालोपि दिवोऽपि पुंसां वैमत्यमत्यप्सरसा रसायाम् ॥
रूपं यदाकर्ण्य जनाननेभ्यस्तत्तद्दिगन्ताद्वयमागमाम । सौन्दर्यसारादनुभूयमानादस्यास्तदस्माद्बहु नाकनीयः ॥
रसस्य शृङ्गार इति श्रुतस्य क्व नाम जागर्ति महानुदन्वान् । कस्मादुदस्थादियमन्यथा श्रीर्लावण्यवैदग्ध्यनिधिः पयोधेः ॥
साक्षात्सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः । एतद्भुवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥
लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् । सव्यापसव्यं विशिखा विसृष्टास्तेनानयोर्यान्ति किमन्तरेव ॥
तनोत्यकीर्तिं कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरौ । यतः श्रवःकुण्डलिकापराद्धशरं खलः ख्यापयिता तमाभ्याम् ॥
रजःपदं षट्पदकीटजुष्टं हित्वात्मनः पुष्पमयं पुराणम् । अद्यात्मभूराद्रियतां स भैम्या भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥
पद्मान्हिमे प्रावृषि खञ्जरीटान्क्षिप्नुर्यमादाय विधिः क्वचित्तान् । सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् ॥