Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 10

Canto 10

दशमः सर्गः

Canto 10 of Naiṣadhīyacaritam.

Total: 138 Verses • Citations: NC 10.1–138 • 1 Lexicon Terms • Page 3 of 5 (Verses 30 shown)
NC 10.61 उपजातिः
एकाकिभावेन पुरा पुरारिः यः पञ्चतां पञ्चशरं निनाय । तद्भीसमाधानममुष्य कायनिकायलीलाः किममी युवानः ॥
NC 10.62 उपजातिः
पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत्क्वापि निधाय वेधाः । तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये ॥
NC 10.63 उपेन्द्रवज्रा
मुधार्पितं मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव । स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥
NC 10.64 उपजातिः
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् । न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्रैरपि वत्सराणाम् ॥
NC 10.65 उपजातिः
स्थितैरियद्भिर्युवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का । एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् ॥
NC 10.66 उपजातिः
इति स्तुवन्हुंकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव । ओंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि ॥
NC 10.67 उपजातिः
न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः । शृङ्गेषु यत्र त्रिदशैरिवैभिः अशोभि कार्तस्वरभूधरस्य ॥
NC 10.68 उपजातिः
विचिन्त्य नानाभुवनागतांस्तानमर्त्यसंकीर्त्यचरित्रगोत्रान् । कथ्याः कथंकारममी सुतायाम् इति व्यषादि क्षितिपेन तेन ॥
NC 10.69 उपजातिः
श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः । तदाकुलोऽसौ कुलदैवतस्य स्मृतिं ततान क्षणमेकतानः ॥
NC 10.70 उपजातिः
तच्चिन्तनानन्तरमेव देवः सरस्वतीं सस्मितमाह स स्म । स्वयंवरे राजकगोत्रवृत्तवत्त्रीमिह त्वां करवाणि वाणि ॥
NC 10.71 उपजातिः
कुलं च शीलं च बलं च यूनां जानासि नानाभुवनागतानाम् । एषामतस्त्वं भव वावदूका मूकायितुं कः समयस्तवायम् ॥
NC 10.72 उपजातिः
जगत्त्रयीपण्डितमण्डितैषा सभा न भूता च न भाविनी च । राज्ञां गुणज्ञापनकैतवेन संख्यावतः श्रावय वाङ्मुखानि ॥
NC 10.73 उपजातिः
इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्टशेषम् । तस्य प्रसादेन सहाज्ञयासावादाय मूर्ध्नादरिणी बभार ॥
NC 10.74 उपजातिः
मध्येसभं सावततार बाला गन्धर्वविद्याधरकण्ठनाला । त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्तितदृक्तरङ्गा ॥
NC 10.75 उपजातिः
आसीदथर्वा त्रिवलित्रिवेदी मूलाद्विनिर्गत्य वितायमाना । नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा ॥
NC 10.76 उपजातिः
शिक्षैव साक्षाच्चरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः । यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तिविद्या खलु पर्यणंसीत् ॥
NC 10.77 इन्द्रवज्रा
जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूद्यदीयम् । श्लोकार्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥
NC 10.78 उपजातिः
असंशयं सा गुणदीर्घभावकृता दधाना विततिं यदीया । विधायिका शब्दपरम्पराणां किं वारचि व्याकरणेन काञ्ची ॥
NC 10.79 उपजातिः
स्थितैव कण्ठे परिणम्य हारलता बभूवोदिततारवृत्ता । ज्योतिर्मयी यद्भजनाय विद्या मध्येङ्गमङ्केन भृता विशङ्के ॥
NC 10.80 उपजातिः
अवैमि वादिप्रतिवादिगाढखपक्षरागेण विराजमाने । ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥
NC 10.81 उपजातिः
ब्रह्मार्थकर्मार्थकवेदभेदा द्विधा विधाय स्थितयात्मदेहम् । चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् ॥
NC 10.82 उपजातिः
उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थैः । आन्वीक्षिकीं यद्दशनद्विमालीं तां मुक्तिकामाकलितां प्रतीमः ॥
NC 10.83 उपजातिः
तर्का रदा यद्वदनस्य तर्क्या वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः । पत्त्रं क्व दातुं गुणशालिपूगं क्व वादतः खण्डयितुं प्रभुत्वम् ॥
NC 10.84 उपजातिः
सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुभयीभविष्णु । तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् ॥
NC 10.85 उपजातिः
आकल्पविच्छेदविवर्जितो यः स धर्मशास्त्रव्रज एव यस्याः । पश्यामि मूर्धा श्रुतिमूलशाली कण्ठस्थितः कस्य मुदे न वृत्तः ॥
NC 10.86 उपजातिः
भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तद्बिन्दुना भालतमालपत्त्रम् । तदर्धचन्द्रेण विधिर्विपञ्ची निक्वाणनाकोणधनुः प्रणिन्ये ॥
NC 10.87 उपजातिः
द्विकुण्डली वृत्तसमाप्तिलिप्या कराङ्गुली काञ्चनलेखनीनाम् । कैश्यं मषीणां स्मितभा कठिन्याः काये यदीये निरमायि सारैः ॥
NC 10.88 इन्द्रवज्रा
या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव । विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव ॥
NC 10.89 उपजातिः
भीमस्तयागद्यत मोदितुं ते वेला किलेयं तदलं विषद्य । मया निगाद्यं जगतीपतीनां गोत्रं चरित्रं च विचित्रमेषाम् ॥
NC 10.90 उपजातिः
अविन्दतासौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे । अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगास्मि कापि ॥
← Previous (Ch. 9) Full Table of Contents Next (Ch. 11) →