रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः । स्वयंवरं शंबरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः ॥
नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः । नास्थादपन्था धरणेः कणोऽपि व्रजेषु राज्ञां युगपद्व्रजत्सु ॥
योग्यैर्व्रजद्भिर्नृपजां वरीतुं वीरैरनर्हैः प्रसभेन हर्तुम् । द्रष्टुं परैस्तान्परिकर्तुमन्यैः स्वमात्रशेषाः ककुभो बभूवुः ॥
लोकैरशेषैरविनिश्रियं ताम् उद्दिश्य दिश्यैर्विहिते प्रयाणे । स्ववर्तितत्तज्जनयन्त्रणार्तिविश्रान्तिमायुः ककुभां विभागाः ॥
तलं यथेयुर्न तिला विकीर्णाः सैन्यैस्तथा राजपथा बभूवुः । भैमीं स लब्धामिव तत्र मेने कः प्राप भूभृद्भवितुं पुरस्तात् ॥
नृपः पुरस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः । यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥
राज्ञां पथि स्त्यानतयानुपूर्व्या विलङ्घनाशक्तिविलम्बभाजाम् । आह्वानसंज्ञानमिवाग्रकम्पैर्ददुर्विदर्भेन्द्रपुरीपताकाः ॥
प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं यदुच्चैः । भुवस्तले कुण्डिनगामि राज्ञां तद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥
आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः । विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥
आखण्डलो दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुर्भिः । भैम्येव बद्ध्वा स्वगुणेन कृष्टैः स्वयंवरे तत्र गतं न शेषैः ॥
मन्त्रैः पुरं भीमपुरोहितस्य तद्बद्धरक्षं विशति क्व रक्षः । तत्रोद्यमं दिक्पतिराततान यातुं ततो जातु न यातुधानः ॥
कर्तुं शशाकाभिमुखं न भैम्या मृगं दृगम्भोरुहतर्जितम्यत् । अस्या विवाहाय ययौ विदर्भांस्तद्वाहनस्तेन न गन्धवाहः ॥
जातौ न वित्ते न गुणे न कामः सौन्दर्य एव प्रवणः स वामः । स्वच्छस्वशैलेक्षितकुत्सबेरः तां प्रत्यगान्न स्त्रितमां कुबेरः ॥
भैमीविवाहं सहते स्म कस्माद् अर्धं तनुर्या गिरिजात्मभर्तुः । तेनाव्रजन्त्या विदधे विदर्भानीशानयानाय तयान्तरायः ॥
स्वयंवरं भीमनरेन्द्रजाया दिशः पतिनां प्रविवेश शेषः । प्रयातु भारं स निवेश्य कस्मिन्नहिर्महीगौरवसासहिर्यः ॥
ययौ विमृश्योर्ध्वदिशः पतिर्न स्वयंवरं वीक्षितधर्मशास्त्रः । व्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क्व पितामहेन ॥
भैमीनिरस्तं स्वमवेत्य दूतीमुखात्किलेन्द्रप्रमुखा दिगीशाः । स्यदे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजमीयुः ॥
नलभ्रमेणापि भजेत भैमी कदाचिदस्मानिति शेषिताशा । अभून्महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलीकरूपा ॥
प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण । नैवानुमेने नलसाम्यसिद्धिः स्वाभाविकात्कृत्रिममन्यदेव ॥
पूर्णेन्दुमास्यं विदधुः पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् । स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं बभञ्जुर्न तथातिमञ्जु ॥
तेषां तदा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य । नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥
प्रियावियोगक्वथितादिवैलाच्चन्द्राच्च राहुग्रहपीडितात्ते । ध्माताद्भवेन स्मरतोऽपि सारैः स्वं कल्पयन्ति स्म नलानुकल्पम् ॥
नलस्य पश्यत्वियदन्तरं तैर्भैमीति भूपान्विधिराहृतास्यै । स्पर्धां दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥
सभा नलश्रीयमकैर्यमाद्यैः नलं विनाभूद्धृतदिव्यरत्नैः । भामाङ्गणप्राधुणिके चतुर्भिर्देवद्रुमैर्द्यौरिव पारिजाते ॥
तत्रागमद्वासुकिरीशभूषा भस्मोपदेहस्फुटगौरदेहः । फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवाद्यनुजीविवादः ॥
द्वीपान्तरेभ्यः पुटभेदनं तत्क्षणादवापे सुरभूमिभूपैः । तत्कालमालम्बि न केन यूना स्मरेषुपक्षानिलतूललीला ॥
रम्येषु हर्म्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः । प्रियोक्तिदानादरनम्रताद्यैरुपाचरच्चारु स राजचक्रम् ॥
चतुःसमुद्रीपरिखे नृपाणाम् अन्तः पुरे वासितकीर्तिदारे । दानं दया सूनृतमातिथेयी चतुष्टयी रक्षणसौविदल्ला ॥
अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु । जिज्ञासितस्वेप्सितलाभलिङ्गं स्वल्पोऽति नावापि नृपैर्विशेषः ॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । यथा पयोराशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥