तां देवतामिव मुखेन्दुवसत्प्रसादामक्ष्णा रसादनिमिषेण निभालयन्तीम् । लाभाय चेतसि धृतस्य वरस्य भीमभूमीन्द्रजा तदनु राजसभां बभाज ॥
तन्निर्मलावयवभित्तिषु तद्विभूषारत्नेषु च प्रतिफलन्निजदेहदम्भात् । दृष्ट्या परं न हृदयेन न केवलं तैः सर्वात्मनैव सुतनौ युवभिर्ममज्जे ॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा यद्यन्यमेव निरमास्यत नाकलोकम् । चारुः स यादृगभविष्यदभूद्विमानैस्तादृक्तदभ्रमवलोकितुमागतानाम् ॥
कुर्वद्भिरात्मभवसौरभसंप्रदानं भूपालचक्रचलचामरमारुतौघम् । आलोकनाय दिवि संचरतां सुराणां तत्रार्चनाविधिरभूदधिवासधूपैः ॥
तत्रावनीन्द्रचयचन्दनचन्द्रलेपनेपथ्यगन्धवहगन्धवहप्रवाहम् । आलीभिरापतदनङ्गशरानुसारी संरुध्य सौरभमगाहत भृङ्गवर्गः ॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गीसर्वानुवादविधिबोधितसाधुमेधाः । सौधस्रजः प्लुतपताकतयाभिनिन्युः मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥
संभाषणं भगवती सदृशं विधाय वाग्देवता विनयवन्धुरकंधरायाः । ऊचे चतुर्दशजगज्जनतानमस्या तन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥
अभ्यागमन्मुखभुजामिह कोटिरेषा येषां पृथक्कथनमब्दशतातिपाति । अस्यां वृणीष्व मनसा परिभाव्य कंचिद्यं चित्तवृत्तिरनुधावति तावकीना ॥
एषां त्वदीक्षणरसादनिमेषतैषा स्वाभाविकानिमिषतामिलिता यथाभूत् । आस्ये तथैव तव नन्वधरोपभोगैः मुग्धे विधावमृतपानमपि द्विधास्तु ॥
एषां गिरेः सकलरत्नफलस्तरुः स प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः । मुक्ताफलं फलनसान्वयनाम तन्वन्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥
वक्त्रेन्दुसंनिधिनिमीलदलारविन्दद्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ । कृत्वापराधभयचञ्चलमीक्षमाणा सान्यत्र गन्तुममरैः कृपयान्वमानि ॥
तत्तद्विरागमुदितं शिबिकाधरस्थाः साक्षाद्विदुः स्म न मनागपि यानधुर्याः । आसन्ननायकविषण्णमुखानुमेयभैमीविरक्तचरितानुमया तु जज्ञुः ॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः । गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृश्य विमुखोऽजनि यानवर्गः ॥
दीनेषु सत्स्वपि कृताफलवित्तरक्षैः यक्षैरदर्शि न मुखं त्रपयैव भैम्याम् । ते जानते स्म सुरशाखिपतिव्रतां किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥
जन्यास्ततः फणभृतामधिपः सुरौघान्माञ्जिष्ठमञ्जिमवगाहिपदोष्ठलक्ष्मीम् । तां मानसं निखिलवारिचयान्नवीना हंसावलीमिव घना गमयांबभूवुः ॥
यस्या विभोरखिलवाङ्मयविस्तरोऽयम् आख्यायते परिणतिर्मुनिभिः पुनः सा । उद्गत्वरामृतकरार्धपरार्ध्यभालां बालामभाषत सभासततप्रगल्भा ॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः । यज्ञोपवीतपदवीं भजते स शंभोः सेवासु वासुकिरयं प्रसितः सितश्रीः ॥
पाणौ फणी भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमुच्चैः । कोटीरबन्धनधनुर्गुणयोगपट्टव्यापारपारगममुं भज भूतभर्तुः ॥
धृत्वैकया रसनयामृतमीश्वरेन्दोरप्यन्यया त्वदधरस्य रसं द्विजिह्वः । आस्वादयन्युगपदेष परं विशेषं निर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥
आशीविषेण रदनच्छददंशदानम् एतेन ते पुनरनर्थतया न गण्यम् । बाधां विधातुमधरे हि न तावकीने पीयूषसारधटिते घटतेऽस्य शक्तिः ॥
तद्विस्फुरत्फणविलोकनभूतभीतेः कम्पं च वीक्ष्य पुलकं च ततोनु तस्याः । संजातसात्विकविकारधियः स्वभृत्यान्नृत्यान्न्यषेधदुरगाधिपतिर्विलक्षाः ॥
तद्दर्शिभिः स्ववरणे फणिभिर्निराशैः निश्वस्य तत्किमपि सृष्टमनात्मनीनम् । यत्तान्प्रयातुमनसोऽपि विमानवाहा हा हा प्रतीपपवनाशकुनान्न जग्मुः ॥
ह्रीसंकुचत्फणगणादुरगप्रधानात्तां राजसङ्घमनयन्त विमानवाहाः । संध्यानमद्दलकुलात्कमलाद्विनीय कह्लारमिन्दुकिरणा इव हासभासम् ॥
देव्याभ्यधायि भव भीरु धृतावधाना भूमीभुजो भजत भीमभुवो निरीक्षाम् । आलोकितामपि पुनः पिबतां दृशैनाम् इच्छा विगच्छति न वत्सरकोटिभिर्वा ॥
लोकेशकेशवशिवानपि यश्चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् । पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन संक्षोभयन्वितनुतां वितनुर्मदं वः ॥
पुष्पेषुणा ध्रुवममूनिषुवर्षजप्तिहुंकारमन्त्रबलभस्मितशान्तशक्तीन् । शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं द्वीपाधिपान्नयनयोर्नय गोचरत्वम् ॥
स्वादूदके जलनिधौ सवनेन सार्धं भव्या भवन्तु तव वारिविहारलीलाः । द्वीपस्य तं पतिममुं भज पुष्करस्य निस्तन्द्रपुष्करतिरस्करणक्षमक्षि ॥
सावर्तभावभवदद्भुतनाभिकूपे स्वर्भौममेतदुपवर्तनमात्मनैव । स्वाराज्यमर्जयसि न श्रियमेतदीयाम् एतद्गृहे परिगृहाण शचीविलासम् ॥
देवः स्वयं वसति तत्र किल स्वयंभूः न्यग्रोधमण्डलतले हिमशीतले यः । स त्वां विलोक्य निजशिल्पमनन्यकल्पं सर्वेषु कारुषु करोतु करेण दर्पम् ॥
न्यग्रोधनादिव दिवः पतदातपादेः न्यग्रोधमात्मभरधारमिवावरोहैः । तं तस्य पाकिफलनीलदलद्युतिभ्यां द्वीपस्य पश्य शिखिपत्त्रजमातपत्रम् ॥