Skip to main content
Search
MBh
Mahābhārata • Parva 5 (Udyogaparva) • Adhyāya 88

Udyogaparva Adhyāya 88

उद्योगपर्व • अध्यायः 88

Udyogaparva Adhyāya 88 of the classical Mahābhārata with 105 verses.

Total: 105 Verses • Citations: MBh 5.88.1–105 • 250 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
अथोपगम्य विदुरमपराह्णे जनार्दनः । पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ॥
English Translation
Vaishampayana said After his visit to Vidura, Janardana, the subduer of enemies, went in the afternoon to Pritha, his mother's sister.
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् । कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ॥
English Translation
Seeing Krishna approaching and effulgent like the radiant sun, Pritha clasped his neck with her arms and poured forth her loud lamentations, remembering her sons.
तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् । चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ॥
English Translation
Seeing Govinda after a long time, the action of the Vrishni race, companion of her sons, endued with prowess, Pritha shed tears.
साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् । बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥
English Translation
She said to Krishna, the best of warriors who had seated himself after receiving the rites of hospitality, with her face dried up with woe and in a voice choked up with tears.
ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः । परस्परस्य सुहृदः संमताः समचेतसः ॥
English Translation
'Those, who ever since their childhood are attached to the service of their elders, those who are endued with humility and those who are of similar hearts, were deprived of their kingdom by deceit and sent into exile, through they were desirous of remaining in the society of men.
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः । विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ॥
त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् । अहार्षुश्च वनं यान्तः समूलं हृदयं मम ॥
अतदर्हा महात्मानः कथं केशव पाण्डवाः । ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ॥
बाला विहीनाः पित्रा ते मया सततलालिताः । अपश्यन्तः स्वपितरौ कथमूषुर्महावने ॥
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि । पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ॥
ये स्म वारणशब्देन हयानां हेषितेन च । रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे ॥
शङ्खभेरीनिनादेन वेणुवीणानुनादिना । पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ॥
वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः । गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ॥
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः । प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ॥
ते नूनं निनदं श्रुत्वा श्वापदानां महावने । न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ॥
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः । स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥
English Translation
It does not seem possible to me that they obtained sleep, though they did not at all deserve this, O Janardana, those who by the sound of cymbals and drums and the conches and flutes and by the sweet music of songs by woman, O slayer of Madhu, were awakened and praised by the prisoners and professional bards-how could they.
बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् । महावने व्यबोध्यन्त श्वापदानां रुतेन ते ॥
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता । कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ॥
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च । भरतस्य दिलीपस्य शिबेरौशीनरस्य च ॥
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् । शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः ॥
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् । अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ॥
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः । प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥
यः स नागायुतप्राणो वातरंहा वृकोदरः । अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥
कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन । शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥
पराक्रमे शक्रसमो वायुवेगसमो जवे । महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥
क्रोधं बलममर्षं च यो निधाय परंतपः । जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥
तेजोराशिं महात्मानं बलौघममितौजसम् । भीमं प्रदर्शनेनापि भीमसेनं जनार्दन । तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ॥
आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत । अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा । द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः । इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥
← Previous (Ch. 750) Full Table of Contents Next (Ch. 752) →