Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 34

Araṇyakaparva (Vanaparva) Adhyāya 34

अरण्यकपर्व • अध्यायः 34

Araṇyakaparva (Vanaparva) Adhyāya 34 of the classical Mahābhārata with 86 verses.

Total: 86 Verses • Citations: MBh 3.34.1–86 • 250 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते । स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते ॥
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति । अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् । उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा । एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति । स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः । प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥
तस्य नाशं विनाशं वा जरया मरणेन वा । अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च । विषये वर्तमानानां या प्रीतिरुपजायते । स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च । न धर्मपर एव स्यान्न चार्थपरमो नरः । न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् । अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् । वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥
धर्मं चार्थं च कामं च यथावद्वदतां वर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् । प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् । जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥
विदितश्चैव ते धर्मः सततं चरितश्च ते । जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् । एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् । अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते । धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् । वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः । तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥
भैक्षचर्या न विहिता न च विट्शूद्रजीविका । क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः । उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् । क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥
प्रजापालनसंभूतं फलं तव न गर्हितम् । एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि । स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः । वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन । पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् । निकृत्या लभते राज्यमाहारमिव शल्यकः ॥
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः । निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥
एवं बलवतः सर्वमिति बुद्ध्वा महीपते । जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥
← Previous (Ch. 330) Full Table of Contents Next (Ch. 332) →