Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 33

Araṇyakaparva (Vanaparva) Adhyāya 33

अरण्यकपर्व • अध्यायः 33

Araṇyakaparva (Vanaparva) Adhyāya 33 of the classical Mahābhārata with 59 verses.

Total: 59 Verses • Citations: MBh 3.33.1–59 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन । ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥
आर्ताहं प्रलपामीदमिति मां विद्धि भारत । भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ॥
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन । अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् । जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ । इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥
उत्थानमभिजानन्ति सर्वभूतानि भारत । प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः । अपि धाता विधाता च यथायमुदके बकः ॥
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः । कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ॥
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा । भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ॥
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि । अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् । नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥
यश्च दिष्टपरो लोके यश्चायं हठवादकः । उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ॥
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् । अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् । आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः । तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥
यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत । दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥
यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः । प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ॥
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् । तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा । यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ॥
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः । विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ॥
यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम् । तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि । स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ॥
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः । सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा । बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ॥
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ । अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः । धिया धीरो विजानीयादुपायं चास्य सिद्धये ॥
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये । तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् । इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् । पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते । असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥
← Previous (Ch. 329) Full Table of Contents Next (Ch. 331) →