Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 49

Araṇyakaparva (Vanaparva) Adhyāya 49

अरण्यकपर्व • अध्यायः 49

Araṇyakaparva (Vanaparva) Adhyāya 49 of the classical Mahābhārata with 44 verses.

Total: 44 Verses • Citations: MBh 3.49.1–44 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥
ततः कदाचिदेकान्ते विविक्त इव शाद्वले । दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया । धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे । धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत । निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः । अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् । सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् । भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः । मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः । नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः । सहामहे भवन्मूलं वासुदेवेन पालिताः ॥
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् । स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् ॥
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः । अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि । न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः । राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः । प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ॥
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् । व्यूढानीकान्महाराज जवेनैव महाहवे । धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् । दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः । एवं कृते न ते दोषो भविष्यति विशां पते ॥
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम । अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥
एवमेतद्भवेद्राजन्यदि राजा न बालिशः । अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः । न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते । अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥
तथैव वेदवचनं श्रूयते नित्यदा विभो । संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत । त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम । एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः । उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ॥
असंशयं महाबाहो हनिष्यसि सुयोधनम् । वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो । अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् । हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे । आजगाम महाभागो बृहदश्वो महानृषिः ॥
← Previous (Ch. 345) Full Table of Contents Next (Ch. 347) →