Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 32

Araṇyakaparva (Vanaparva) Adhyāya 32

अरण्यकपर्व • अध्यायः 32

Araṇyakaparva (Vanaparva) Adhyāya 32 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 3.32.1–41 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः । उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत । ददामि देयमित्येव यजे यष्टव्यमित्युत ॥
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् । गृहानावसता कृष्णे यथाशक्ति करोमि तत् ॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् । आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च । धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति । यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः । धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः । वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि । स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः । शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः । मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः । अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् । शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥
एते हि धर्ममेवादौ वर्णयन्ति सदा मम । कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥
अतो नार्हसि कल्याणि धातारं धर्ममेव च । रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति । आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् । एतावान्मन्यते बालो मोहमन्यत्र गच्छति ॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते । ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः । कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते । अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् । सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः । पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः । अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् । विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः ॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च । दानमार्जवमेतानि यदि स्युरफलानि वै ॥
नाचरिष्यन्परे धर्मं परे परतरे च ये । विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः । ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे । धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥
स चायं सफलो धर्मो न धर्मोऽफल उच्यते । दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥
← Previous (Ch. 328) Full Table of Contents Next (Ch. 330) →