Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 32

Araṇyakaparva (Vanaparva) Adhyāya 32

अरण्यकपर्व • अध्यायः 32

Araṇyakaparva (Vanaparva) Adhyāya 32 of the classical Mahābhārata with 41 verses.

Total: 41 Verses • Citations: MBh 3.32.1–41 • 250 Lexicon Terms • Page 2 of 2 (Verses 11 shown)
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् । वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥
एतावदेव पर्याप्तमुपमानं शुचिस्मिते । कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः । तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा ॥
कर्मणामुत पुण्यानां पापानां च फलोदयः । प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः । रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः । प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः । यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् । ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु । व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः । शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् । उत्तमं दैवतं कृष्णे मातिवोचः कथंचन ॥
← Previous (Ch. 328) Full Table of Contents Next (Ch. 330) →