Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 31

Araṇyakaparva (Vanaparva) Adhyāya 31

अरण्यकपर्व • अध्यायः 31

Araṇyakaparva (Vanaparva) Adhyāya 31 of the classical Mahābhārata with 43 verses.

Total: 43 Verses • Citations: MBh 3.31.1–43 • 250 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव । पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ॥
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च । पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् । यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत । धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह ॥
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते । ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह । त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः । इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते । बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः । अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् । दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ॥
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः । यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि । नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥
यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते । तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ॥
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये । वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ॥
अस्मिन्नपि महारण्ये विजने दस्युसेविते । राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ॥
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः । एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये । राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः । कथमक्षव्यसनजा बुद्धिरापतिता तव ॥
अतीव मोहमायाति मनश्च परिदूयते । निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये । दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥
यथा दारुमयी योषा नरवीर समाहिता । ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥
आकाश इव भूतानि व्याप्य सर्वाणि भारत । ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः । ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ॥
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः । धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥
नात्माधीनो मनुष्योऽयं कालं भवति कंचन । स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ॥
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः । धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः । व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥
← Previous (Ch. 327) Full Table of Contents Next (Ch. 329) →