Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 31

Araṇyakaparva (Vanaparva) Adhyāya 31

अरण्यकपर्व • अध्यायः 31

Araṇyakaparva (Vanaparva) Adhyāya 31 of the classical Mahābhārata with 43 verses.

Total: 43 Verses • Citations: MBh 3.31.1–43 • 250 Lexicon Terms • Page 2 of 2 (Verses 13 shown)
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् । येन कारयते कर्म शुभाशुभफलं विभुः ॥
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः । यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ॥
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः । अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च । अन्यथैव प्रभुस्तानि करोति विकरोति च ॥
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः । अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः । हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः । क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥
न मातृपितृवद्राजन्धाता भूतेषु वर्तते । रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ॥
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् । अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ॥
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने । धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि । धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति । कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति । कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥
← Previous (Ch. 327) Full Table of Contents Next (Ch. 329) →