Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 11

Araṇyakaparva (Vanaparva) Adhyāya 11

अरण्यकपर्व • अध्यायः 11

Araṇyakaparva (Vanaparva) Adhyāya 11 of the classical Mahābhārata with 40 verses.

Total: 40 Verses • Citations: MBh 3.11.1–40 • 250 Lexicon Terms
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने । अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् । तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि । अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥
अयमायाति वै राजन्मैत्रेयो भगवानृषिः । अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ॥
एष दुर्योधनं पुत्रं तव राजन्महानृषिः । अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया । अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत । पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् । प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले । कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ॥
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः । कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् । यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥
तं जटाजिनसंवीतं तपोवननिवासिनम् । समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् । अनयं द्यूतरूपेण महापायमुपस्थितम् ॥
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया । सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति । यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ॥
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् । किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन । तेन न भ्राजसे राजंस्तापसानां समागमे ॥
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् । उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥
दुर्योधन महाबाहो निबोध वदतां वर । वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ॥
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः । पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः । सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ॥
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः । हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् । हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् । आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥
तं भीमः समरश्लाघी बलेन बलिनां वरः । जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥
पश्य दिग्विजये राजन्यथा भीमेन पातितः । जरासंधो महेष्वासो नागायुतबलो युधि ॥
संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः । कस्तान्युधि समासीत जरामरणवान्नरः ॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ । कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते । ऊरुं गजकराकारं करेणाभिजघान सः ॥
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् । न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् । दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः । विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः । मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि । तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ॥
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् । यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ॥
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः । प्रसादयामास मुनिं नैतदेवं भवेदिति ॥
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा । शापो न भविता तात विपरीते भविष्यति ॥
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा । मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः । एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् । किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ॥
← Previous (Ch. 307) Full Table of Contents Next (Ch. 309) →