Skip to main content
Search
MBh
Mahābhārata • Parva 3 (Vanaparva (Araṇyaka)) • Adhyāya 12

Araṇyakaparva (Vanaparva) Adhyāya 12

अरण्यकपर्व • अध्यायः 12

Araṇyakaparva (Vanaparva) Adhyāya 12 of the classical Mahābhārata with 76 verses.

Total: 76 Verses • Citations: MBh 3.12.1–76 • 250 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् । रक्षसा भीमसेनस्य कथमासीत्समागमः ॥
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः । श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः । जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप । प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ॥
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः । दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥
तेषां प्रविशतां तत्र मार्गमावृत्य भारत । दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ॥
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् । स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् । सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥
सृजन्तं राक्षसीं मायां महारावविराविणम् । मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ॥
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् । विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् । तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥
तस्योरुवाताभिहता ताम्रपल्लवबाहवः । विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ॥
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः । रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः । पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ॥
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् । आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥
तं समासाद्य वित्रस्ता कृष्णा कमललोचना । अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ॥
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा । पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः । इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् । रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः । पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ॥
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः । काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ॥
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः । को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ॥
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् । अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ॥
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः । युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥
के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम् । युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ॥
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः । आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः । सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः । वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम । उपपादितमद्येह चिरकालान्मनोगतम् ॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः । चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ॥
← Previous (Ch. 308) Full Table of Contents Next (Ch. 310) →