Skip to main content
Search
MBh
Mahābhārata • Parva 1 (Ādiparva) • Adhyāya 2

Ādiparva Adhyāya 2

आदिपर्व • अध्यायः 2

Ādiparva Adhyāya 2 of the classical Mahābhārata with 244 verses.

Total: 244 Verses • Citations: MBh 1.2.1–244 • 250 Lexicon Terms • Page 5 of 9 (Verses 30 shown)
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥
English Translation
The defeat of Bandi and the release of the father of the Rishi (Ashtavakra) from the ocean. Then follows the story of Yavakrita, then that of the great Raibhya,
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥
English Translation
Then Ghoshayatra, Mriga-svapna, then Brihidraunikamakhyana and Aindradyumna;
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥
English Translation
Then the stories of Savitri, Vamadeva and Vainya; then the stories of Jamadagni and Shodasharajika;
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् । जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥
English Translation
The story of Araneya in which Dharma gave advice to his son and in which is related how the Pandavas received a boon and went to the west.
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु संख्याते परमर्षिणा । एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥
English Translation
These matters are all described in the third Parva called Aranyaka. It contains two hundred and sixty-nine chapters. Its numbers of slokas is eleven thousand, six hundred and sixty four. Then comes the extensive Virata Parva.
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥
English Translation
The number of slokas, composed by the greatly wise Rishi, is three thousand three hundred and twenty.
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् । दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥
English Translation
It described how the Pandavas arrived at the city of Virata and saw a Shami tree in a cremation ground on which they kept hidden their weapons.
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥
English Translation
Then have been related their entry into the city and their stay in disguise; then the slaying by Bhima of the wicked Kichaka who lustfully aspired for Draupadi; then the attempt of king Duryodhana to find out the Pandavas;
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥
English Translation
The capture of Virata by the enemy and his rescue by Bhima; the release of his kine also by the Pandava (Bhima).
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥
English Translation
The release of the king's kine by Arjuna's valour; the bestowal by Virata of his daughter to Arjuna for his acceptance of her for his son by Subhadra, Abhimanyu, the destroyer of foes. These are the contents of the extensive fourth Parva Virata.
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसंख्यातमध्यायानां महात्मना ॥
English Translation
This twelfth Parva, the favourite of the wise, contains three hundred and thirty nine chapters.
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु । पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा ॥
English Translation
The great Rishi has composed it in sixty seven chapters and it contains two thousand and fifty slokas.
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया । दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥
English Translation
Here now, the contents of the fifth Parva, named Udyoga. When the Pandavas were living at Upaplavya,
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥
English Translation
And one Akshauhini of my soldiers, between these two which shall I give to you?" Blind to his own interest, the foolish' Duryodhana asked for the soldiers.
संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥
English Translation
Dhritarashtra heard all about the Pandavas, their friends, Krishna and others; and his great anxiety and sleeplessness in consequence. Vidura's sound, wise and various counsels were given to the wise king Dhritarashtra.
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥
English Translation
Dhritarashtra heard all about the Pandavas, their friends, Krishna and others; and his great anxiety and sleeplessness in consequence. Vidura's sound, wise and various counsels were given to the wise king Dhritarashtra.
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥
English Translation
It then contains the excellent truths of spiritual philosophy that were told by Sanatsujata.
प्रभाते राजसमितौ संजयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥
English Translation
Of the great friendship between Arjuna and Krishna. It was then that great Krishna, moved by pity and being desirous of bringing peace.
यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥
English Translation
Went himself to Hastinapur, the capital of the Kurus. (It then relates) the rejection of the peaceful offer of Krishna by the king Duryodhana.
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥
English Translation
Karna's rejection of Krishna's advice out of pride; then the chastiser of his enemies, Krishna returned to Upaplavya from Hastinapur.
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसंख्यानमेव च ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →