Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 64

Sabhāparva Adhyāya 64

सभापर्व • अध्यायः 64

Sabhāparva Adhyāya 64 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 2.64.1–18 • 250 Lexicon Terms
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः । तासामेतादृशं कर्म न कस्यांचन शुश्रुमः ॥
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति । द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् । पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः । स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् । अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते । देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् । धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः । भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च । सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् । अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥
किं नो विवदितेनेह किं नः क्लेशेन भारत । अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः । मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा । स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप । सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् । युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः ॥
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् । मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥
निवार्य तं महाबाहुं कोपसंरक्तलोचनम् । पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥
← Previous (Ch. 288) Full Table of Contents Next (Ch. 290) →