Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 65

Sabhāparva Adhyāya 65

सभापर्व • अध्यायः 65

Sabhāparva Adhyāya 65 of the classical Mahābhārata with 18 verses.

Total: 18 Verses • Citations: MBh 2.65.1–18 • 250 Lexicon Terms
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः । नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत । अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥
इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् । धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ॥
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर । विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत । नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ॥
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः । प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ॥
नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः । प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि । सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥
तथाचरितमार्येण त्वयास्मिन्सत्समागमे । दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ॥
मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् । उपस्थितं वृद्धमन्धं पितरं पश्य भारत ॥
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् । मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ॥
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता । मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ॥
त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः । श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ॥
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश । भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः । कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥
ते रथान्मेघसंकाशानास्थाय सह कृष्णया । प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥
← Previous (Ch. 289) Full Table of Contents Next (Ch. 291) →