Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 66

Sabhāparva Adhyāya 66

सभापर्व • अध्यायः 66

Sabhāparva Adhyāya 66 of the classical Mahābhārata with 38 verses.

Total: 38 Verses • Citations: MBh 2.66.1–38 • 250 Lexicon Terms
अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् । पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता । राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥
दुर्योधनं समासाद्य सामात्यं भरतर्षभ । दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ । शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः ॥
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् । अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः । शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण । पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥
ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् । यदि तान्योधयिष्यामः किं वा नः परिहास्यति ॥
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् । कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः । निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ॥
संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी । गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः । स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ॥
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् । सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् । अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते । द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः । एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ॥
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः । प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् । ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् । अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ॥
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ । अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् ॥
दृढमूला वयं राज्ये मित्राणि परिगृह्य च । सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् । जेष्यामस्तान्वयं राजन्रोचतां ते परंतप ॥
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि । आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः । विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥
भूरिश्रवाः शांतनवो विकर्णश्च महारथः । मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् । अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् । पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ॥
जाते दुर्योधने क्षत्ता महामतिरभाषत । नीयतां परलोकाय साध्वयं कुलपांसनः ॥
व्यनदज्जातमात्रो हि गोमायुरिव भारत । अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो । मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ॥
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् । शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ॥
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः । शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ॥
न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन । त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ॥
शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा । प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् । अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ॥
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः । पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ॥
← Previous (Ch. 290) Full Table of Contents Next (Ch. 292) →