Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 63

Sabhāparva Adhyāya 63

सभापर्व • अध्यायः 63

Sabhāparva Adhyāya 63 of the classical Mahābhārata with 37 verses.

Total: 37 Verses • Citations: MBh 2.63.1–37 • 250 Lexicon Terms
त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी । दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ॥
प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म । ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥
अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन । अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु ॥
पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च । दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ॥
प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः । पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः । राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ॥
नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः । किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा । युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् ॥
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने । प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् । स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥
कदलीदण्डसदृशं सर्वलक्षणपूजितम् । गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव । द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते । प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः । यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः । वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥
परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् । दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि ॥
अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् । योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥
इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् । इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा ॥
स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः । गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात ॥
भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव । युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥
ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा । ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ॥
ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे । तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः ॥
तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च । भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥
ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे । निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ॥
हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम् । स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ॥
एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् । कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि । वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ । सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः । एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् । लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् । मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥
सरथौ सधनुष्कौ च भीमसेनधनंजयौ । नकुलं सहदेवं च द्वितीयं वरये वरम् ॥
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता । त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे । अनर्हा वरमादातुं तृतीयं राजसत्तम ॥
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ । त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥
पापीयांस इमे भूत्वा संतीर्णाः पतयो मम । वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥
← Previous (Ch. 287) Full Table of Contents Next (Ch. 289) →