Skip to main content
Search
MBh
Mahābhārata • Parva 2 (Sabhāparva) • Adhyāya 62

Sabhāparva Adhyāya 62

सभापर्व • अध्यायः 62

Sabhāparva Adhyāya 62 of the classical Mahābhārata with 39 verses.

Total: 39 Verses • Citations: MBh 2.62.1–39 • 250 Lexicon Terms
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् । विह्वलास्मि कृतानेन कर्षता बलिना बलात् ॥
अभिवादं करोम्येषां गुरूणां कुरुसंसदि । न मे स्यादपराधोऽयं यदिदं न कृतं मया ॥
सा तेन च समुद्धूता दुःखेन च तपस्विनी । पतिता विललापेदं सभायामतथोचिता ॥
स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः । न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे । साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ॥
यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे । स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥
मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् । स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥
किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा । सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥
धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् । स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती । वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् । ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ॥
अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः । क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥
जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः । तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥
उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् । लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ॥
बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः । स धर्मो धर्मवेलायां भवत्यभिहितः परैः ॥
न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् । सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥
नूनमन्तः कुलस्यास्य भविता नचिरादिव । तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥
कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् । धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ॥
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् । यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे ॥
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः । शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥
युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः । अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ॥
तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् । नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ॥
दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां;स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः । स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् ॥
तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव । पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः । कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥
धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः । ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ॥
सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव । न विब्रुवन्त्यार्यसत्त्वा यथाव;त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥
ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः । चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः । सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः । किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः । भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् । प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ॥
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः । न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः । मन्यते जितमात्मानं यद्येष विजिता वयम् ॥
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् । मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥
पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव । नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥
धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम् । गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव । धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ॥
तमुवाच तदा भीष्मो द्रोणो विदुर एव च । क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि ॥
← Previous (Ch. 286) Full Table of Contents Next (Ch. 288) →